Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1375

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रे꣡द्धो꣢ अग्ने दीदिहि पु꣣रो꣡ नोऽज꣢꣯स्रया सू꣣꣬र्म्या꣢꣯ यविष्ठ । त्वा꣡ꣳ शश्व꣢꣯न्त꣣ उ꣡प꣢ यन्ति꣣ वा꣡जाः꣢ ॥१३७५॥

प्रे꣡द्धः꣢꣯ । प्र । इ꣣द्धः । अग्ने । दीदिहि । पुरः꣢ । नः꣣ । अ꣡ज꣢꣯स्रया । अ । ज꣣स्रया । सू꣢र्म्या꣢꣯ । य꣣विष्ठ । त्वा꣡म् । श꣡श्व꣢꣯न्तः । उ꣡प꣢꣯ । य꣣न्ति । वा꣡जाः꣢꣯ ॥१३७५॥

Mantra without Swara
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उप यन्ति वाजाः ॥

प्रेद्धः । प्र । इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । अ । जस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥१३७५॥

Samveda - Mantra Number : 1375
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (यविष्ठ) युवतम (अग्ने) जीवात्मन् विद्युद् वा ! (प्रेद्धः) प्रदीपितः त्वम् (अजस्रया) अक्षीणया (सूर्म्या) ज्वालया, तेजस्वितया इत्यर्थः (नः पुरः) अस्माकमग्रे (दीदिहि) दीप्यस्व। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] (त्वाम्) भवन्तं (शश्वन्तः) बहवः। [शश्वदिति बहुनाम। निघं० ३।१।] (वाजाः) बलानि (उपयन्ति) उपगच्छन्ति ॥३॥२
Essence
जीवात्मनि विद्युतीव महती शक्तिर्निहिताऽस्ति। तामुपयुज्य मानवस्तेजस्वी प्रतापवानग्रगन्ता महांश्च भवितुमर्हति ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।