Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1372

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
उ꣣क्षा꣡ मि꣢मेति꣣ प्र꣡ति꣢ यन्ति धे꣣न꣡वो꣢ दे꣣व꣡स्य꣢ दे꣣वी꣡रुप꣢꣯ यन्ति निष्कृ꣣त꣢म् । अ꣡त्य꣢क्रमी꣣द꣡र्जु꣢नं꣣ वा꣡र꣢म꣣व्य꣢य꣣म꣢त्कं꣣ न꣢ नि꣣क्तं꣢꣫ परि꣣ सो꣡मो꣢ अव्यत ॥१३७२॥

उक्षा꣢ । मि꣣मेति । प्र꣡ति꣢꣯ । य꣣न्ति । धेन꣡वः꣢ । दे꣣व꣡स्य꣢ । दे꣣वीः꣢ । उ꣡प꣢꣯ । य꣣न्ति । निष्कृत꣢म् । निः꣣ । कृत꣢म् । अ꣡ति꣢꣯ । अ꣣क्रमीत् । अ꣡र्जु꣢꣯नम् । वा꣡र꣢꣯म् । अ꣣व्यय꣢म् । अ꣡त्क꣢꣯म् । न । नि꣣क्त꣢म् । प꣡रि꣢꣯ । सो꣡मः꣢꣯ । अ꣣व्यत ॥१३७२॥

Mantra without Swara
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥

उक्षा । मिमेति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निष्कृतम् । निः । कृतम् । अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यत ॥१३७२॥

Samveda - Mantra Number : 1372
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उक्षा) प्राणरूपो वृषभः। [अनड्वान् प्राण उच्यते। अथ० ११।४।] (मिमेति) शब्दायते। [माङ् माने शब्दे च जुहोत्यादिः। परस्मैपदं छान्दसम्।] (धेनवः) इन्द्रियरूपाः गावः (प्रति यन्ति) बाह्यविषयेभ्यो निवर्तन्ते। (देवीः) दिव्यगुणा मनोवृत्तयः (देवस्य) प्रकाशकस्य जीवात्मनः (निष्कृतम्) गृहम्, आश्रयम् (उप यन्ति) उपगच्छन्ति। एतत् सर्वं कुतो जायते ? यतः (सोमः) जीवात्मा (अति) विघ्नानतिक्रम्य (अर्जुनम्) श्वेतं, निष्कलुषम् (अव्ययम्) अविनश्वरम् (वारम्) वरणीयं परमात्मानं प्रति (अक्रमीत्) पादविक्षेपं कृतवान् अस्ति, अपि च (निक्तम्) शुद्धम्। [णिजिर् शौचपोषणयोः, निष्ठा।] (अत्कं न) कवचमिव तम्, (परि अव्यत) परि धारितवान् अस्ति। [व्येञ् संवरणे, भ्वादिः] ॥३॥ चतुर्थे पादे उपमालङ्कारः, उत्तरार्धगतेन कारणेन पूर्वार्धगतस्य कार्यस्य समर्थनादर्थान्तरन्यासश्च ॥३॥
Essence
परमात्मनि प्राप्ते जीवः कवचधर इव रक्षितो जायते ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।