Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1371

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
उ꣡पो꣢ म꣣तिः꣢ पृ꣣च्य꣡ते꣢ सि꣣च्य꣢ते꣣ म꣡धु꣢ म꣣न्द्रा꣡ज꣢नी चोदते अ꣣न्त꣢रा꣣स꣡नि꣢ । प꣡व꣢मानः सन्त꣣निः꣡ सु꣢न्व꣣ता꣡मि꣢व꣣ म꣡धु꣢मान्द्र꣣प्सः꣢꣫ परि꣣ वा꣡र꣢मर्षति ॥१३७१॥

उ꣡प꣢꣯ । उ꣣ । मतिः꣢ । पृ꣣च्य꣡ते꣢ । सि꣣च्य꣡ते꣢ । म꣡धु꣢꣯ । म꣣न्द्रा꣡ज꣢नी । म꣣न्द्र । अ꣡ज꣢꣯नी । चो꣣दते । अन्तः꣢ । आ꣣स꣡नि꣢ । प꣡व꣢꣯मानः । स꣣न्तनिः꣢ । स꣣म् । तनिः꣢ । सु꣣न्वता꣢म् । इ꣣व । म꣡धु꣢꣯मान् । द्र꣡प्सः꣢ । प꣡रि꣢꣯ । वा꣡र꣢꣯म् । अ꣣र्षति ॥१३७१॥

Mantra without Swara
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥

उप । उ । मतिः । पृच्यते । सिच्यते । मधु । मन्द्राजनी । मन्द्र । अजनी । चोदते । अन्तः । आसनि । पवमानः । सन्तनिः । सम् । तनिः । सुन्वताम् । इव । मधुमान् । द्रप्सः । परि । वारम् । अर्षति ॥१३७१॥

Samveda - Mantra Number : 1371
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मतिः) मनीषा (उप पृच्यते उ) संपृच्यते खलु। [पृची सम्पर्के।] (मधु) माधुर्यं (सिच्यते) क्षार्यते, (आसनि अन्तः) मुखाभ्यन्तरे (मन्द्राजनी) मन्द्रान् आनन्दकरान् शब्दान् ओंकारव्याहृतिगायत्र्यादीन् अजति प्रेरयतीति सा जिह्वा। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः, ‘स्फायितञ्चि’। उ० २।१३ इति रक् प्रत्ययः। अज गतिक्षेपणयोः, भ्वादिः।] (चोदते) स्तुतिमन्त्रान् प्रेरयति। [चुद संचोदने, चुरादिः वैदिको भ्वादावपि पठितव्यः।] (पवमानः) प्रस्रवन् अन्तःकरणं पवित्रीकुर्वन् वा (सन्तनिः) सम्यग् विस्तरणशीलः, (मधुमान्) मधुरः (द्रप्सः) ब्रह्मानन्दरसः (वारम्) दोषनिवारकम् अन्तरात्मानम् (परि अर्षति) परि गच्छति, (सुन्वताम् इव) यथा यजमानानाम् (पवमानः) गुरुकुलनिवासेन स्वात्मानं पुनानः (मधुमान्) मधुरज्ञानवान् मधुरव्यवहारो वा (सन्तनिः२) सन्तानः स्नातको भूत्वा (वारम्) जनसमाजम् (परि अर्षति) परिगच्छति ॥२॥ अत्र श्लिष्टोपमालङ्कारः। उत्तरार्धगतेन कारणेन पूर्वार्धगतस्य कार्यस्य समर्थनादर्थान्तरन्यासः। पकार-मकार-नकार-तकार-सकाराणां पृथक् पृथगावृत्तौ वृत्त्यनुप्रासः। ‘च्यते’ इत्यस्यावृत्तौ यमकं च। शान्तो रसः ॥२॥
Essence
उपासकस्यान्तरात्मं ब्रह्मानन्दरसप्रवाहे सति विलक्षणा मतिर्विलक्षणं माधुर्यं चानुभूयते ॥२॥
Subject
अथ परमात्मोपासनायाः फलमाह।