Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1370

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
सू꣡र्य꣢स्येव र꣣श्म꣡यो꣢ द्रावयि꣣त्न꣡वो꣢ मत्स꣣रा꣡सः꣢ प्र꣣सु꣡तः꣢ सा꣣क꣡मी꣢रते । त꣡न्तुं꣢ त꣣तं꣢꣫ परि꣣ स꣡र्गा꣢स आ꣣श꣢वो꣣ ने꣡न्द्रा꣢दृ꣣ते꣡ प꣢वते꣣ धा꣢म꣣ किं꣢ च꣣न꣢ ॥१३७०॥

सू꣡र्य꣢꣯स्य । इ꣣व । रश्म꣡यः꣢ । द्रा꣣वयित्न꣡वः꣢ । म꣣त्सरा꣡सः꣢ । प्र꣣सु꣡तः꣢ । प्र꣣ । सु꣡तः꣢꣯ । सा꣣क꣢म् । ई꣣रते । त꣡न्तु꣢꣯म् । त꣣त꣢म् । प꣡रि꣢꣯ । स꣡र्गा꣢꣯सः । आ꣣श꣡वः꣢ । न꣡ । इन्द्रा꣢꣯त् । ऋ꣣ते꣢ । प꣣वते । धा꣡म꣢꣯ । किम् । च꣣ । न꣢ ॥१३७०॥

Mantra without Swara
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते । तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥

सूर्यस्य । इव । रश्मयः । द्रावयित्नवः । मत्सरासः । प्रसुतः । प्र । सुतः । साकम् । ईरते । तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । च । न ॥१३७०॥

Samveda - Mantra Number : 1370
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सूर्यस्य) आदित्यस्य (रश्मयः इव) किरणाः इव (द्रावयित्नवः) द्रावणशीलाः। [द्रु गतौ, णिजन्ताद् इत्नुच् प्रत्ययः।] (प्रसुतः) अभिषुताः। [प्र पूर्वात् सुवतेः क्विपि प्रथमाबहुवचने रूपम्।] (मत्सरासः) तृप्तिजनकाः, (आशवः) सद्योगामिनः, (सर्गासः) सृष्टाः भक्तिरसाः (साकम्) युगपत् (ततम्) सर्वत्र विततम् (तन्तुम्) मणिषु सूत्रवद् व्याप्तम् इन्द्रं परमात्मानम् (परि ईरते) परिगच्छन्ति। यतः (इन्द्रात् ऋते) परमात्मनोऽतिरिक्तम् (किं चन धाम) किमपि ज्योतिः (न पवते) न पुनाति ॥१॥ अत्रोपमालङ्कारः काव्यलिङ्गं च ॥१॥
Essence
परमात्मन एवोपासनया कृपया च मनुष्यस्यान्तःकरणं पवित्रं जायते ॥१॥
Subject
तत्रादौ परमात्मोपासनाविषयमाह।