Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 137

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१३७॥

स꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्राय । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः । ॥१३७॥

Mantra without Swara
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥

सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः । ॥१३७॥

Samveda - Mantra Number : 137
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) इन्द्रस्य परमैश्वर्यवतः पराक्रमशालिनः परमेश्वरस्य (मन्यवे) अन्यायपापादीन् असहिष्णवे तेजसे, तत् तेजः प्राप्तुमित्यर्थः (विश्वाः) सर्वाः (कृष्टयः) कृषिकर्मसंलग्नाः, मनोभूमौ सद्गुणरूपबीजानां वप्त्र्यः (विशः२) प्रजाः। कृष्टयः, विशः इत्युभयमपि मनुष्यनामसु पठितम्। निघं० २।३। (सं नमन्त) परमेश्वरं प्रति संनमन्ति प्रह्वीभवन्ति। नमन्त अनमन्त। सामान्यकाले लङ्। आत्मनेपदं छान्दसम्। बहुलं छान्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमो न। (समुद्राय) समुद्रं प्राप्तुं (सिन्धवः इव) स्यन्दनशीला नद्यो यथा नमन्ति, नीचैर्भवन्ति, निम्नाभिमुखं प्रवहन्ति इत्यर्थः ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
मन्युर्नाम तन्मानसं तेजो यस्मात् कश्चिदधर्मदुराचारपापादीनि न सोढुं शक्नोति। इन्द्राख्यः परमेश्वरः खलु तस्य मन्योरादर्शः। मन्युनिधेस्तस्य मन्युं प्राप्तुं नम्रतया सर्वैर्यत्नो विधेयः ॥३॥
Subject
परमात्मनो मन्यवे सर्वे संनमन्तीत्याह।
Footnote
१. ऋ० ८।६।४, अथ० २०।१०७।१, साम० १६५१। २. विशः। यद्यपि विश इति मनुष्यनाम तथापि कृष्टय इत्यनेन पौनरुक्त्यप्रसङ्गात् क्रियानिमित्तं द्रष्टव्यम्। विष्लृ व्याप्तौ इत्यस्येदं रूपम्। स्तुतिभिर्हविर्भिश्च व्याप्तारः....कृष्टयः यजमानमनुष्या इत्यर्थः—इति वि०। अस्माभिस्तु कृष्टयः इति विशेषणं, विशः इति च विशेष्यं स्वीकृतम्।