Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1369

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इ꣡न्द्र꣢स्ते सोम सु꣣त꣡स्य꣢ पेया꣣त्क्र꣢त्वे꣣ द꣡क्षा꣢य꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥१३६९॥

इ꣡न्द्रः꣢꣯ । ते꣣ । सोम । सुत꣡स्य꣢ । पे꣣यात् । क्र꣡त्वे꣢꣯ । द꣡क्षा꣢꣯य । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥१३६९॥

Mantra without Swara
इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥

इन्द्रः । ते । सोम । सुतस्य । पेयात् । क्रत्वे । दक्षाय । विश्वे । च । देवाः ॥१३६९॥

Samveda - Mantra Number : 1369
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ब्रह्मानन्दरस ! (सुतस्य) परमात्मनः सकाशात् प्रस्रुतस्य (ते) त्वाम् (क्रत्वे) कर्मणे (दक्षाय) बलाय च (इन्द्रः) जीवात्मा (पेयात्) आस्वादयेत्, (विश्वे च देवाः) अन्ये च प्रकाशकाः मनोबुद्धिज्ञानेन्द्रियादयः पेयासुः आस्वादयेयुः ॥३॥
Essence
ब्रह्मानन्दरसपानेन मनुष्य आत्मबली कर्मयोगी च जायते ॥३॥ अस्मिन् खण्डे परमात्मनो ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ पुनरपि स एव विषय उच्यते।