Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1366

1875 Mantra
Devata- पवमानः सोमः Rishi- त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्स्यः Chhand- पिपीलिकामध्या अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣢नु꣣ हि꣡ त्वा꣢ सु꣣त꣡ꣳ सो꣢म꣣ म꣡दा꣢मसि महे समर्यराज्ये । वाजाँ अभि पवमान प्र गाहसे ॥१३६६॥

अ꣡नु꣢꣯ । हि । त्वा꣣ । सुत꣢म् । सो꣣म । म꣡दा꣢꣯मसि । म꣣हे꣢ । स꣣मर्यरा꣡ज्ये꣢ । स꣣मर्य । रा꣡ज्ये꣢꣯ । वा꣡जा꣢꣯न् । अ꣣भि꣢ । प꣣वमान । प꣢ । गा꣣हसे ॥१३६६॥

Mantra without Swara
अनु हि त्वा सुतꣳ सोम मदामसि महे समर्यराज्ये । वाजाँ अभि पवमान प्र गाहसे ॥

अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यराज्ये । समर्य । राज्ये । वाजान् । अभि । पवमान । प । गाहसे ॥१३६६॥

Samveda - Mantra Number : 1366
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ब्रह्माण्डस्य सम्राट् जगदीश्वर ! (महे) महति (समर्यराज्ये) समरेण देवासुरसंग्रामेण प्राप्तं समर्यं तस्मिन् राज्ये, आन्तरे स्वराज्ये इत्यर्थः, वयम् (सुतं त्वा) हृदये प्रकटीभूतं त्वाम् (अनु) अनुलक्ष्य (मदामसि हि) मोदामहे खलु। [मदी हर्षग्लेपनयोः, भ्वादिः।] हे (पवमान) पावक परमात्मन् ! त्वम् (वाजान्) बलानि, (अभि प्र गाहसे) अवगाहसे, अतोऽस्मभ्यमपि बलानि देहीति भावः ॥३॥
Essence
स्वान्तरात्मनि प्रच्छन्नं परमात्मानं प्रकटीकृत्यात्मबलं परमाह्लादकश्च प्राप्तुं शक्यते ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ४३२ क्रमाङ्के परमात्मानं जीवात्मानं राजानं च सम्बोधिता। अत्र परमात्मविषये व्याख्यायते।