Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1365

1875 Mantra
Devata- पवमानः सोमः Rishi- त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्स्यः Chhand- पिपीलिकामध्या अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣡जी꣢जनो꣣ हि꣡ प꣢वमान꣣ सू꣡र्यं꣢ वि꣣धा꣢रे꣣ श꣡क्म꣢ना꣣ प꣡यः꣢ । गो꣡जी꣢रया꣣ र꣡ꣳह꣢माणः꣣ पु꣡र꣢न्ध्या ॥१३६५

अ꣡जी꣢꣯जनः । हि । प꣣वमान । सू꣡र्य꣢꣯म् । वि꣣धा꣡रे꣢ । वि꣣ । धा꣡रे꣢꣯ । श꣡क्म꣢꣯ना । प꣡यः꣢꣯ । गो꣡जी꣢꣯रया । गो । जी꣣रया । र꣡ꣳह꣢꣯माणः । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ ॥१३६५॥

Mantra without Swara
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । गोजीरया रꣳहमाणः पुरन्ध्या ॥१३६५

अजीजनः । हि । पवमान । सूर्यम् । विधारे । वि । धारे । शक्मना । पयः । गोजीरया । गो । जीरया । रꣳहमाणः । पुरन्ध्या । पुरम् । ध्या ॥१३६५॥

Samveda - Mantra Number : 1365
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पावक सर्वान्तर्यामिन् परमेश्वर ! त्वम् (सूर्यम्) आदित्यम् (अजीजनः हि) उत्पादितवानसि खलु, अपि च (शक्मना) स्वशक्त्या (विधारे) विधारके अन्तरिक्षे (पयः) मेघजलम् (अजीजनः) उत्पादितवानसि। त्वम् (गोजीरया२) गोजीवया, भूमण्डलस्य जीवनेच्छया (पुरन्ध्या) भूयस्या प्रज्ञया क्रियया च। [पुरन्धिर्बहुधीः। निरु० ६।१३। धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९।] (रंहमाणः) त्वरमाणः भवसीति शेषः ॥२॥३
Essence
ब्रह्माण्डस्थानि सूर्यविद्युन्नक्षत्रपर्जन्यादीनि सर्वाणि विलक्षणानि वस्तूनि परमात्मनैव विरचितानि, नैषां निर्माणे कस्यचिन्मनुष्यस्य सामर्थ्यमस्ति। स सर्वेषां हितकाम्यया बुद्धिपूर्वकं चेष्टमानो वर्त्तते ॥२॥
Subject
अथ परमेश्वरं स्तौति।