Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1362

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢रः꣣ स्तो꣡मा꣢स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥१३६२॥

उ꣢त् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡था꣢꣯ । इ꣣व ॥१३६२॥

Mantra without Swara
उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥

उत् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथा । इव ॥१३६२॥

Samveda - Mantra Number : 1362
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सत्राजितः) सत्यजितः, (धनसाः) भौतिकमाध्यात्मिकं च धनं संभजमानाः प्रयच्छन्तश्च। [षण सम्भक्तौ, भ्वादिः। षणु दाने, तनादिः।] (अक्षितोतयः) अक्षीणरक्षाः, (वाजयन्तः) बलकार्याणि कुर्वन्तः (त्ये) ते (मधुमत्तमाः) मधुरतमव्यवहाराः, (स्तोमासः) स्तोतारः। [स्तोमासः स्तुतिकर्तारः इति ऋ० ५।८४।२ भाष्ये द०।] (गिरः) विद्वांसः। [गृणन्ति, ये ते गिरो विद्वांसः इति ऋ० १।६।६ भाष्ये द०।] (रथाः इव) विमानयानानीव (उदीरते उ) उद्गच्छन्ति, उद्यमिनो भवन्ति खलु ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
परमात्मोपासका मनसा वाचा कर्मणा च सत्याः परोपकारिणो मधुरा बलिनः पुरुषार्थिनश्च भूत्वा स्वकीयं परेषां चोत्कर्षं साधयन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५१ क्रमाङ्के स्तोत्रविषये व्याख्याता। अत्र स्तोतृविषय उच्यते।