Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1361

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथो घौरः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣣वक्रक्षि꣡णं꣢ वृष꣣भं꣡ य꣢था꣣ जु꣢वं꣣ गां꣡ न च꣢꣯र्षणी꣣स꣡ह꣢म् । वि꣣द्वे꣡ष꣢णꣳ सं꣣व꣡न꣢नमुभयङ्क꣣रं꣡ मꣳहि꣢꣯ष्ठमुभया꣣वि꣡न꣢म् ॥१३६१॥

अवक्रक्षि꣡ण꣢म् । अ꣣व । क्रक्षि꣡ण꣢म् । वृ꣣षभ꣢म् । यथा । जु꣡व꣢꣯म् । गाम् । न । च꣣र्षणीस꣡ह꣢म् । च꣣र्षणि । स꣡ह꣢꣯म् । वि꣣द्वे꣡ष꣢णम् । वि꣣ । द्वे꣡ष꣢꣯णम् । सं꣣व꣡न꣢नम् । स꣣म् । व꣡न꣢꣯नम् । उ꣣भयङ्कर꣢म् । उ꣣भयम् । कर꣢म् । म꣡ꣳहि꣢꣯ष्ठम् । उ꣣भयावि꣡न꣢म् ॥१३६१॥

Mantra without Swara
अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् । विद्वेषणꣳ संवननमुभयङ्करं मꣳहिष्ठमुभयाविनम् ॥

अवक्रक्षिणम् । अव । क्रक्षिणम् । वृषभम् । यथा । जुवम् । गाम् । न । चर्षणीसहम् । चर्षणि । सहम् । विद्वेषणम् । वि । द्वेषणम् । संवननम् । सम् । वननम् । उभयङ्करम् । उभयम् । करम् । मꣳहिष्ठम् । उभयाविनम् ॥१३६१॥

Samveda - Mantra Number : 1361
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अवक्रक्षिणम्) अवक्रष्टुं सूर्यादिलोकान् परस्पराकर्षणेन धारयितुं शीलमस्येति अवक्रक्षी तम्, (वृषभं यथा) वर्षकं मेघमिव (जुवम्) गन्तारम्, मेघो यथा वृष्टिजलेन भूमिमुपगच्छति तथा आनन्दोपहारैः उपासकान् उपगन्तारमित्यर्थः, (गां न) विद्युतमिव (चर्षणीसहम्) दुर्जनानां पराभवितारम्, (विद्वेषणम्) विगतद्वेषम्, (संवननम्) स्तोतृभिः संभजनीयम्, (उभयङ्करम्) उभयस्य द्यावापृथिवीरूपस्यकर्त्तारम्, (मंहिष्ठम्) दातृतमम्, (उभयाविनम्२) निग्रहानुग्रहोभयगुणोपेतम्, इन्द्रं परमात्मानं स्तोत इति पूर्वमन्त्रादाकृष्यते। [बहुलं छन्दसि। अ० ७।२।१२२ इत्यत्र ‘छन्दसि विनिप्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्’ इति वार्तिकेन उभयशब्दान्मत्वर्थे विनि प्रत्ययो दीर्घत्वं च] ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
गगने निराधारमाकर्षणरज्जुना लोकलोकान्तराणां धारयिता, सज्जनानामुत्साहयिता, दुर्जनानां दण्डयिता, जगत्स्रष्टा, परमैश्वर्यवान् जगदीश्वरः सर्वैः समुपास्यः ॥२॥
Subject
अथ कीदृशः स परमेश्वरोऽस्तीत्याह।