Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1360

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथो घौरः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
मा꣡ चि꣢द꣣न्य꣡द्वि श꣢꣯ꣳसत꣣ स꣡खा꣢यो꣣ मा꣡ रि꣢षण्यत । इ꣢न्द्र꣣मि꣡त्स्तो꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ सु꣣ते꣡ मुहु꣢꣯रु꣣क्था꣡ च꣢ शꣳसत ॥१३६०॥

मा꣢ । चि꣣त् । अन्य꣢त् । अ꣣न् । य꣢त् । वि । श꣣ꣳसत । स꣡खा꣢꣯यः । स । खा꣣यः । मा꣢ । रि꣣षण्यत । इ꣡न्द्र꣢꣯म् । इत् । स्तो꣣त । वृ꣡ष꣢꣯णम् । स꣡चा꣢꣯ । सु꣣ते꣢ । मु꣡हुः꣢꣯ । उ꣣क्था꣢ । च꣣ । शꣳसत ॥१३६०॥

Mantra without Swara
मा चिदन्यद्वि शꣳसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणꣳ सचा सुते मुहुरुक्था च शꣳसत ॥

मा । चित् । अन्यत् । अन् । यत् । वि । शꣳसत । सखायः । स । खायः । मा । रिषण्यत । इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शꣳसत ॥१३६०॥

Samveda - Mantra Number : 1360
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः, यूयम् (अन्यत्) परमेश्वरातिरिक्तं सूर्यचन्द्रवृक्षस्थाणुप्रतिमादिकम् (मा चित्) नैव खलु (वि शंसत) अर्चत, (मा रिषण्यत) अनर्चनीयानामर्चनेन (मा रिषण्यत) हिंसिता न भवत। (सुते) श्रद्धारसे अभिषुते सति (सचा) संभूय (वृषणम्) आनन्दवर्षकम् (इन्दुम् इत्) परमैश्वर्यशालिनं परमेश्वरमेव (स्तोत) स्तुवीध्वम्, (मुहुः) पुनः पुनः (उक्था च) उक्थानि च, स्तोत्राणीत्यर्थः (शंसत) कीर्तयत ॥१॥
Essence
एकस्य सर्वज्ञस्य सर्वान्तर्यामिनो न्यायकारिणः परमेश्वरस्यैव पूजा सर्वैर्विधेया। वेदेष्विन्द्रमित्रवरुणादिभिरनेकैर्नामभिरेक एव परमेश्वरः प्रतिपादितोऽस्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २४२ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्रापि स एव विषय उच्यते।