Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1359

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣡ व꣢र्धि꣣ता꣡ वर्ध꣢꣯नः पू꣣य꣡मा꣢नः꣣ सो꣡मो꣢ मी꣣ढ्वा꣢ꣳ अ꣣भि꣢ नो꣣ ज्यो꣡ति꣢षावीत् । य꣡त्र꣢ नः꣣ पू꣡र्वे꣢ पि꣣त꣡रः꣢ पद꣣ज्ञाः꣢ स्व꣣र्वि꣡दो꣢ अ꣣भि꣡ गा अद्रि꣢꣯मि꣣ष्ण꣢न् ॥१३५९॥

सः꣢ । व꣣र्धिता꣢ । व꣡र्ध꣢꣯नः । पू꣣य꣡मा꣢नः । सो꣡मः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣भि꣢ । नः꣣ । ज्यो꣡ति꣢꣯षा । आ꣣वीत् । य꣡त्र꣢꣯ । नः꣢ । पू꣡र्वे꣢꣯ । पि꣣त꣡रः꣢ । प꣣दज्ञाः꣢ । प꣣द । ज्ञाः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । अ꣣भि꣢ । गाः । अ꣡द्रि꣢꣯म् । अ । द्रि꣣म् । इष्ण꣢न् ॥१३५९॥

Mantra without Swara
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥

सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् । यत्र । नः । पूर्वे । पितरः । पदज्ञाः । पद । ज्ञाः । स्वर्विदः । स्वः । विदः । अभि । गाः । अद्रिम् । अ । द्रिम् । इष्णन् ॥१३५९॥

Samveda - Mantra Number : 1359
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वर्धिता) वर्धयिता (वर्धनः) स्वयं वृद्धः प्राप्तमहिमः इत्यर्थः, (पूयमानः) उपासकैः गम्यमानः। [पवते गतिकर्मा। निघं० २।१४।], (मीढ्वान्) सुखसेक्ता। [मिह सेचने, लिटः क्वसुः।] (सोमः) जगत्स्रष्टा परमेश्वरः (ज्योतिषा) तेजसा (नः) अस्मान् (अभि आवीत्२) अभिरक्षतु। (यत्र) यस्याश्रये विद्यमानाः (पदज्ञाः) मोक्षमार्गस्य ज्ञातारः (नः) अस्माकम् (पूर्वे पितरः) श्रेष्ठाः पितृजनाः (गाः अभि) दिव्यप्रकाशरश्मीन् प्राप्तुम् (अद्रिम्) पर्वतवत् प्रतिबन्धकं तमोजालम् (इष्णन्) ऐष्णन् अपनयन्ति। [इष आभीक्ष्ण्ये क्र्यादिः, वर्तमाने लङ्।] (स्वर्विदः) प्राप्तमोक्षानन्दाश्च जायन्ते ॥३॥
Essence
ज्योतिर्मयस्य परमात्मन उपासनया मनुष्या अपि ज्योतिष्मन्तो भूत्वा मोक्षं लभन्ते ॥३॥
Subject
अथोपासकः स्वकामनां प्रकटयति।