Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1358

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣡ पु꣢ना꣣न꣢꣫ उप꣣ सू꣢रे꣣ द꣡धा꣢न꣣ ओ꣡भे अ꣢꣯प्रा꣣ रो꣡द꣢सी꣣ वी꣡ ष आ꣢꣯वः । प्रि꣣या꣢ चि꣣द्य꣡स्य꣢ प्रिय꣣सा꣡स꣢ ऊ꣣ती꣢ स꣣तो꣡ धनं꣢꣯ का꣣रि꣢णे꣣ न꣡ प्र य꣢꣯ꣳसत् ॥१३५८॥

सः । पु꣣नानः꣢ । उ꣡प꣢꣯ । सू꣡रे꣢꣯ । द꣡धा꣢꣯नः । आ । उ꣣भे꣡इति꣢ । अ꣣प्राः । रो꣡दसी꣣इ꣡ति꣢ । वि । सः । आ꣣वरि꣡ति꣢ । प्रि꣣या꣢ । चि꣣त् । य꣡स्य꣢꣯ । प्रि꣣यसा꣡सः꣢ । ऊ꣣ती꣢ । स꣣तः꣢ । ध꣡न꣢꣯म् । का꣣रि꣡णे꣢ । न । प्र । य꣣ꣳसत् ॥१३५८॥

Mantra without Swara
स पुनान उप सूरे दधान ओभे अप्रा रोदसी वी ष आवः । प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यꣳसत् ॥

सः । पुनानः । उप । सूरे । दधानः । आ । उभेइति । अप्राः । रोदसीइति । वि । सः । आवरिति । प्रिया । चित् । यस्य । प्रियसासः । ऊती । सतः । धनम् । कारिणे । न । प्र । यꣳसत् ॥१३५८॥

Samveda - Mantra Number : 1358
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ सोमः जगत्स्रष्टा परमेश्वरः (उभे रोदसी) उभे द्यावापृथिव्यौ, पृथिवीं द्युलोकवर्तिनः अन्यान् ग्रहोपग्रहांश्चेत्यर्थः (पुनानः) पवित्रीकुर्वाणः (सूरे उप) सूर्यस्य नियन्त्रणकक्षायाम् (दधानः) धारयन् (आ पप्राः) सूर्यप्रकाशेन आपूरितवानस्ति। (सः) असौ ते द्यावापृथिव्यौ (वि आवः च) विवृतवान् अस्ति च। [वृणोतेः लुङि ‘मन्त्रे घसह्वर०’। अ० २।४।८१ इति च्लेर्लुक्। ‘छन्दस्यपि दृश्यते’। अ० ६।४।७३ इत्याडागमः। संहितायां ‘वी’ इति छान्दसो दीर्घः, ‘षः’ इत्यत्र ‘पूर्वपदात्’ अ० ८।३।१०६ इति षत्वम्।] (सतः) विद्यमानस्य (यस्य) यस्य सोमस्य परमेश्वरस्य, येन सोमेन परमेश्वरेण रचिता इत्यर्थः (प्रिया) प्रियाः। [सुपां सुलुक्० अ० ७।१।३९ इति जसः आकारादेशः।] (प्रियसासः) प्रियस्य अभीष्टस्य दातारः पदार्थाः। [प्रियं सन्वन्ति ददति इति प्रियसाः। जसोऽसुगागमे प्रियसासः।] (ऊती) सर्वेषाम् ऊत्यै रक्षायै भवन्ति, सः अस्मभ्यम् (धनम्) ऐश्वर्यम् (प्र यंसत्) प्रयच्छतु, (कारिणे न) यथा कर्मकराय वेतनं दीयते तथा। [यंसत् इत्यत्र यच्छतेर्लेटि तिपि सिप् अडागमश्च] ॥२॥ अत्रोपमालङ्कारः। ‘प्रिया, प्रिय’ इति छेकानुप्रासः ॥२॥
Essence
ब्रह्माण्डेऽस्मिन् द्यावापृथिवीधारणादिरूपा यापि व्यवस्था दृश्यते सा सर्वापि परमात्मकृतैव। यथा कर्मकराय वेतनं प्रदीयते तथा स्तोत्रे परमात्मा पुरुषार्थमैश्वर्यं च प्रयच्छति ॥२॥
Subject
अथ परमात्ममहिमानमाचष्टे।