Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1354

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡ त्वा꣢ मन्दन्तु꣣ सो꣡माः꣢ कृणु꣣ष्व꣡ राधो꣢꣯ अद्रिवः । अ꣡व꣢ ब्रह्म꣣द्वि꣡षो꣢ जहि ॥१३५४॥

उ꣢त् । त्वा꣣ । मन्दन्तु । सो꣡माः꣢꣯ । कृ꣣णुष्व꣢ । रा꣡धः꣢꣯ । अ꣣द्रिवः । अ । द्रिवः । अ꣡व꣢꣯ । ब्र꣣ह्मद्वि꣡षः꣢ । ब्र꣣ह्म । द्वि꣡षः꣢꣯ । ज꣣हि ॥१३५४॥

Mantra without Swara
उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥

उत् । त्वा । मन्दन्तु । सोमाः । कृणुष्व । राधः । अद्रिवः । अ । द्रिवः । अव । ब्रह्मद्विषः । ब्रह्म । द्विषः । जहि ॥१३५४॥

Samveda - Mantra Number : 1354
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) अविदारणीयबल इन्द्र जीवात्मन् ! (त्वा) त्वाम् (सोमाः) वीररसाः (मदन्तु उ) उत्साहयन्तु खलु। त्वम् (राधः) दिव्यैश्वर्यं साफल्यं च (कृणुष्व) सम्पादय। (ब्रह्मद्विषः) ब्रह्मद्वेषिणो भावान् (अवजहि) विनाशय ॥१॥
Essence
स्वकीयमात्मबलं परिचित्य मनुष्येण महान्ति कार्याणि सम्पादनीयानि विघ्नाश्च पराजेयाः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १९४ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जीवात्मा प्रोद्बोध्यते।