Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1352

1875 Mantra
Devata- आदित्यः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣣प्रावी꣡र꣢स्तु꣣ स꣢꣫ क्षयः꣣ प्र꣡ नु याम꣢꣯न्त्सुदानवः । ये꣡ नो꣢ अ꣡ꣳहो꣢ऽति꣣पि꣡प्र꣢ति ॥१३५२॥

सु꣣प्रावीः꣢ । सु꣣ । प्रावीः꣢ । अ꣣स्तु । सः꣢ । क्ष꣡यः꣢꣯ । प्र । नु । या꣡म꣢꣯न् । सु꣣दानवः । सु । दानवः । ये꣢ । नः꣣ । अ꣡ꣳहः꣢꣯ । अ꣣तिपि꣡प्र꣢ति । अ꣣ति । पि꣡प्र꣢꣯ति ॥१३५२॥

Mantra without Swara
सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः । ये नो अꣳहोऽतिपिप्रति ॥

सुप्रावीः । सु । प्रावीः । अस्तु । सः । क्षयः । प्र । नु । यामन् । सुदानवः । सु । दानवः । ये । नः । अꣳहः । अतिपिप्रति । अति । पिप्रति ॥१३५२॥

Samveda - Mantra Number : 1352
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुदानवः) शोभनदानाः उपासका विद्वांसो जनाः ! (ये) ये भवन्तः (नः) अस्माकम् (अंहः) पापम् अपराधं वा (अति पिप्रति) अतिपारयन्ति, तेषां भवताम् (यामन्) यामनि आगमने, प्राप्तौ सत्याम् (सः क्षयः) सोऽस्माकं निवासः (सुप्रावीः) सम्यक् प्रकृष्टतया रक्षितः (नु) क्षिप्रम् (प्र अस्तु) प्रकर्षेण जायताम् ॥२॥
Essence
कर्तव्याकर्तव्योपदेशकानामुपासकानां विदुषां जनानां समागमेन मनुष्याः कस्मिन्नपि पापकर्मण्यप्रवर्तमानाः पुण्यशालिनो भवन्ति ॥२॥
Subject
अथोपासका विद्वांसो जनाः सम्बोध्यन्ते।