Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1351

1875 Mantra
Devata- आदित्यः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢द꣣द्य꣢꣫ सू꣣र उ꣢दि꣣ते꣡ऽना꣢गा मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । सु꣣वा꣡ति꣢ सवि꣣ता꣡ भगः꣢꣯ ॥१३५१॥

य꣢त् । अ꣣द्य । अ꣢ । द्य꣣ । सू꣡रे꣢꣯ । उ꣡दि꣢꣯ते । उत् । इ꣣ते । अ꣡ना꣢꣯गाः । अन् । आ꣣गाः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣡र्यमा꣢ । सु꣣वा꣡ति꣢ । स꣣विता꣢ । भ꣡गः꣢꣯ ॥१३५१॥

Mantra without Swara
यदद्य सूर उदितेऽनागा मित्रो अर्यमा । सुवाति सविता भगः ॥

यत् । अद्य । अ । द्य । सूरे । उदिते । उत् । इते । अनागाः । अन् । आगाः । मित्रः । मि । त्रः । अर्यमा । सुवाति । सविता । भगः ॥१३५१॥

Samveda - Mantra Number : 1351
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदि (अद्य) अस्मिन् दिने (सूरे उदिते) सूर्ये उदयं प्राप्ते सति, मनुष्यः (अनागाः) निष्पापो भवति, तर्हि (मित्रः) सर्वमित्रः, (अर्यमा) न्यायकारी, न्यायेन कर्मफलप्रदाता, (भगः) भजनीयः (सविता) प्रेरकः परमेश्वरः, तम् सर्वस्मिन् दिने (सुवाति) सत्कर्मसु प्रेरयति ॥१॥
Essence
दिवसस्यारम्भे यदि मनसि सद्विचाराः सन्ति तर्हि परमेशकृपया सर्वमपि दिनं निष्कलुषं व्यत्येष्यतीत्याशास्यते ॥१॥
Subject
तत्रादौ निष्पापत्वं प्रशंस्यते।