Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1350

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡ग्ने꣢ सु꣣ख꣡त꣢मे꣣ र꣡थे꣢ दे꣣वा꣡ꣳ ई꣢डि꣣त꣡ आ व꣢꣯ह । अ꣢सि꣣ हो꣢ता꣣ म꣡नु꣢र्हितः ॥१३५०॥

अ꣡ग्ने꣢꣯ । सु꣣ख꣡त꣢मे । सु꣣ । ख꣡त꣢꣯मे । र꣡थे꣢꣯ । दे꣣वा꣢न् । ई꣣डितः꣢ । आ । व꣣ह । अ꣡सि꣢꣯ । हो꣡ता꣢꣯ । म꣡नु꣢꣯र्हितः । म꣡नुः꣢꣯ । हि꣡तः ॥१३५०॥

Mantra without Swara
अग्ने सुखतमे रथे देवाꣳ ईडित आ वह । असि होता मनुर्हितः ॥

अग्ने । सुखतमे । सु । खतमे । रथे । देवान् । ईडितः । आ । वह । असि । होता । मनुर्हितः । मनुः । हितः ॥१३५०॥

Samveda - Mantra Number : 1350
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक परमात्मन् ! (ईडितः) पूजितः त्वम् (देवान्) दिव्यगुणयुक्तान् (विदुषः) उपासकान् अस्मान्, भाविजन्मनि (सुखतमे) अतिशयेन सुखकारिणि (रथे) मानवदेहरूपे रथे (आ वह) जीवनयात्रां कारय। त्वम् (होता) कर्मफलानां दाता, (मनुर्हितः२) मनुषे मानवाय हितः हितकरः (असि) वर्तसे। [मनुषे हितः मनुर्हितः। अत्र ‘क्ते च’। अ० ६।२।४५ इत्यनेन पूर्वपदप्रकृतिस्वरः] ॥४॥३
Essence
परमेश्वरोपासनेन सत्कर्मसु प्रेरितो मानवो भाविजन्मन्यपि कर्मानुसारं मानवयोनिं प्राप्नोति ॥४॥
Subject
अथ परमेश्वरं प्रार्थयते।