Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 135

1875 Mantra
Devata- इन्द्रः Rishi- कण्वो घौरः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣हे꣡व꣢ शृण्व एषां꣣ क꣢शा꣣ ह꣡स्ते꣢षु꣣ य꣡द्वदा꣢꣯न् । नि꣡ यामं꣢꣯ चि꣣त्र꣡मृ꣢ञ्जते ॥१३५॥

इ꣣ह꣢ । इ꣣व । शृण्वे । एषाम् । क꣡शाः꣢꣯ । ह꣡स्ते꣢꣯षु । यत् । व꣡दा꣢꣯न् । नि । या꣡म꣢꣯न् । चि꣣त्र꣢म् । ऋ꣣ञ्जते ॥१३५॥

Mantra without Swara
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् । नि यामं चित्रमृञ्जते ॥

इह । इव । शृण्वे । एषाम् । कशाः । हस्तेषु । यत् । वदान् । नि । यामन् । चित्रम् । ऋञ्जते ॥१३५॥

Samveda - Mantra Number : 135
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सैनिकपक्षे। (एषाम्) एतेषां मरुतां सैनिकानां (हस्तेषु) पाणिषु, युद्धकाले (यत् कशाः) प्रतोदाः (वदान्) वदन्ति नदन्ति, ध्वनिं कुर्वन्ति। वद धातोर्लेटि लेटोऽडाटौ अ० ३।४।९४ इत्याट् इतश्च लोपः परस्मैपदेषु अ० ३।४।९७ इत्यनेन अन्ति इत्यस्य इकारलोपः। ततश्च संयोगान्ततकारलोपे रूपम्। तत् तेषां नदनम् (इह इव२) अत्र इव, अयुद्धस्थलेष्वपीति भावः। (शृण्वे३) शृणोमि। आत्मनेपदम् छान्दसम्। एष मरुद्गणः सैनिकानां समाजः (यामन्४) यामनि संग्रामे। यान्ति आक्रामन्ति परस्परं योद्धारो यस्मिन् स यामा, तस्मिन्। या धातोरौणादिको मनिन् प्रत्ययः। सुपां सुलुक्० अ० ७।१।३९ इति ङेर्लुक्। (चित्रम्) अद्भुतं यथा स्यात् तथा (निऋञ्जते) प्रसाध्नोति, अलङ्करोत्यात्मानम्। ऋञ्जतिः प्रसाधनकर्मा। निरु० ६।२१। मरुतां सैनिकानां वेशप्रसाधनमेवं वर्णयति श्रुतिः—“अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑। अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥” ऋ० ५।५४।११। स्वा॒यु॒धास॑ इ॒ष्यिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्वःशुम्भ॑मानाः ॥ ऋ० ७।५६।११ इति। अथ द्वितीयः—प्राणपक्षे। (एषाम्) एतेषां मरुतां प्राणानाम् (हस्तेषु) हस्तोपलक्षितेषु पूरककुम्भकादिविधिषु (यत् कशाः) अकर्णगोचराः सूक्ष्मा वाचः। कशेति वाङ्नाम। निघं० १।११। (वदान्) ध्वनन्ति, तद् ध्वननम् (इह इव) अत्र इव, अनभ्यासदशायामपीत्यर्थः (शृण्वे) शृणोमि। एष मरुतां प्राणानां गणः (यामन्) अभ्यासमार्गे। यान्ति अस्मिन्निति यामा मार्गः। (चित्रम्) अद्भुतम् (निऋञ्जते) प्रसाधयति अलङ्करोति योगैश्वर्यैः प्राणायामाभ्यासिनं साधकम् ॥१॥५ अस्मिन् मन्त्रे भूतस्य वस्तुनः प्रत्यक्षवद् वर्णनाद् भाविकालङ्कारः६। सैनिकप्राणरूपार्थद्वयप्रकाशनाच्च श्लेषः ॥१॥
Essence
यथा राज्ञः सहायकाः सैनिका राष्ट्रं रक्षन्ति, तथैव योगिनः सहायकाः प्राणा योगिनो योगं रक्षन्ति। युद्धेषु शत्रूणां पुरतः सैनिकानां कशा ध्वनन्ति, तद् दृश्यं यैः साक्षात्कृतं भवति, तच्चमत्कृतास्ते, युद्धेतरस्थलेष्वपि मन्यन्ते यदत्रापि तेषां कशाः शब्दायन्त इव। सैनिकानां वीरोचितो वेशविन्यासोऽप्यद्भुत इव प्रतिभाति। प्राणा अपि योगिनां सैनिका एव, ये शरीरोत्पन्नं दोषजातं बहिर्निष्कासयन्ति, इन्द्रियाणि निर्मलयन्ति, योगैश्वर्यप्राप्तिप्रयासं च सफलयन्ति ॥१॥
Subject
अथेन्द्रस्य सहाया मरुतो वर्ण्यन्ते। अस्मिन् मन्त्रे यद्यपि इन्द्रस्य सहाया मरुतः स्तूयन्ते तथापि सैनिकानां स्तुत्या सेनापतिरेव स्तुतो भवतीति न्यायेनेन्द्रो देवता। ऋग्वेदे त्वस्य मन्त्रस्य (ऋ० १।३७।३) मरुत एव देवताः। इन्द्रश्च शरीरस्य सम्राट् जीवात्मा, राष्ट्रस्य सम्राट् राष्ट्रपतिश्च। जीवात्मनः सहाया मरुतः प्राणाः, राष्ट्रपतेश्च सहाया मरुतः सैनिका इति बोध्यम्।
Footnote
१. ऋ० १।३७।३, देवता मरुतः। २. इव शब्द एवार्थे—इति वि०। इव शब्द उपमानार्थः सम्प्रत्यर्थोऽवधारणार्थः पदपूरणार्थश्च भवति। अत्र उपमानार्थव्यतिरिक्तानां त्रयाणामन्यतमो ग्राह्यः—इति भ०। ३. शृण्वे श्रूयते—इति वि०, भ०। शृणोति—इति सा०। ४. यामन् संग्रामे—इति सा०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं वायुपक्षे व्याख्यातः। ६. प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः, तद् भाविकम्। का० प्र० १०।११४ इति तल्लक्षणात्।