Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1349

1875 Mantra
Devata- नराशंसः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
न꣢रा꣣श꣡ꣳस꣢मि꣣ह꣢ प्रि꣣य꣢म꣣स्मि꣢न्य꣣ज्ञ꣡ उप꣢꣯ ह्वये । म꣡धु꣢जिह्वꣳ हवि꣣ष्कृ꣡त꣢म् ॥१३४९॥

नरा꣣श꣡ꣳस꣢म् । इ꣣ह꣢ । प्रि꣣य꣢म् । अ꣣स्मि꣢न् । य꣣ज्ञे꣢ । उ꣡प꣢꣯ । ह्व꣢ये । म꣡धु꣢꣯जिह्वम् । म꣡धु꣢꣯ । जि꣣ह्वम् । हविष्कृ꣡त꣢म् । ह꣣विः । कृ꣡त꣢꣯म् ॥१३४९॥

Mantra without Swara
नराशꣳसमिह प्रियमस्मिन्यज्ञ उप ह्वये । मधुजिह्वꣳ हविष्कृतम् ॥

नराशꣳसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये । मधुजिह्वम् । मधु । जिह्वम् । हविष्कृतम् । हविः । कृतम् ॥१३४९॥

Samveda - Mantra Number : 1349
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मधुजिह्वम्) मधुरभाषिणम्, (हविष्कृतम्) हविः आत्मसमर्पणं करोतीति तम्, (इह) अत्र (प्रियम्) मम प्रीतिपात्रम् (नराशंसम्) नरैः प्रशंसनीयं जीवात्मानम् (अस्मिन् यज्ञे) एतस्मिन् पारस्परिकसंगमयज्ञे, अहम् (उपह्वये) स्वसमीपम् आह्वयामि ॥३॥२
Essence
जीवात्मनाऽऽत्मसमर्पणे कृते सति परमात्मा स्वयमेव तं स्वान्तिके समानयति ॥३॥
Subject
अथ परमेश्वरो ब्रूते।