Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1348

1875 Mantra
Devata- तनूनपात् Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
म꣡धु꣢मन्तं तनूनपाद्य꣣ज्ञं꣢ दे꣣वे꣡षु꣢ नः कवे । अ꣣द्या꣡ कृ꣢णुह्यू꣣त꣡ये꣢ ॥१३४८॥

म꣡धु꣢꣯मन्तम् । त꣣नूनपात् । तनू । नपात् । यज्ञ꣢म् । दे꣣वे꣡षु꣢ । नः꣣ । कवे । अ꣡द्य꣢ । अ꣣ । द्य꣢ । कृ꣣णुहि । ऊत꣡ये꣢ ॥१३४८॥

Mantra without Swara
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुह्यूतये ॥

मधुमन्तम् । तनूनपात् । तनू । नपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । अ । द्य । कृणुहि । ऊतये ॥१३४८॥

Samveda - Mantra Number : 1348
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (तनूनपात्) देहधारिणामुन्नायक। [तनूः देहान् देहधारिणो न पातयतीति तनूनपात्।] (कवे) क्रान्तप्रज्ञ परमात्मन् ! त्वम् (अद्य) अस्मिन् दिने (ऊतये) रक्षायै (नः) अस्माकम् (देवेषु) विद्वत्सु (यज्ञम्) त्यागभावनाम् (कृणुहि) उत्पादय ॥२॥२
Essence
राष्ट्रवासिनां जीवनं यदि यज्ञमयं त्यागपूर्णं वा भवेत् तर्हि राष्ट्रमुन्नतेश्चरमसोपानमारोहेत् ॥२॥
Subject
अथ तनूनपात् परमेश्वरः प्रार्थ्यते।