Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1347

1875 Mantra
Devata- इध्मः समिद्धो वाग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣡ष꣢मिद्धो न꣣ आ꣡ व꣢ह दे꣣वा꣡ꣳ अ꣢ग्ने ह꣣वि꣡ष्म꣢ते । हो꣡तः꣢ पावक꣣ य꣡क्षि꣢ च ॥१३४७॥

सु꣡ष꣢꣯मिद्धः । सु । स꣣मिद्धः । नः । आ꣢ । व꣣ह । देवा꣢न् । अ꣣ग्ने । हवि꣡ष्म꣢ते । होत꣣रि꣡ति꣢ । पा꣣वक । य꣡क्षि꣢꣯ । च꣣ ॥१३४७॥

Mantra without Swara
सुषमिद्धो न आ वह देवाꣳ अग्ने हविष्मते । होतः पावक यक्षि च ॥

सुषमिद्धः । सु । समिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते । होतरिति । पावक । यक्षि । च ॥१३४७॥

Samveda - Mantra Number : 1347
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक तेजस्विन् विश्वेश्वर ! (सुसमिद्धः) अन्तरात्मनि सम्यक् प्रदीपितः त्वम् (नः) अस्मभ्यम् उपासकेभ्यः (हविष्मते) अन्यस्मै आत्मसमर्पकाय च (देवान्) दिव्यगुणान् (आ वह) प्रापय। (होतः) हे सुखप्रदातः ! (पावक) हे पवित्रकर्तः ! त्वम् (यक्षि२ च) अस्माभिः संगच्छस्व च। [यक्षि यज इति निरुक्तम् ६।१३] ॥१॥३
Essence
स्वान्तरात्मनि परमात्माग्निं प्रदीप्य जना दिव्यगुणयुक्ता जायन्ताम् ॥१॥
Subject
तत्रादौ परमात्मानं प्रार्थयते।