Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1346

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
यु꣣ङ्क्ष्वा꣢꣫ हि के꣣शि꣢ना꣣ ह꣢री꣣ वृ꣡ष꣢णा कक्ष्य꣣प्रा꣢ । अ꣡था꣢ न इन्द्र सोमपा गि꣣रा꣡मुप꣢꣯श्रुतिं चर ॥१३४६॥

युङ्क्ष्व꣢ । हि । के꣣शि꣡ना꣢ । हरी꣢꣯इ꣡ति꣢ । वृ꣡ष꣢꣯णा । क꣣क्ष्यप्रा꣢ । क꣣क्ष्य । प्रा꣢ । अ꣡थ꣢꣯ । नः꣣ । इन्द्र । सोमपाः । सोम । पाः । गिरा꣢म् । उ꣡प꣢꣯श्रुतिम् । उ꣡प꣢꣯ । श्रु꣣तिम् । चर ॥१३४६॥

Mantra without Swara
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥

युङ्क्ष्व । हि । केशिना । हरीइति । वृषणा । कक्ष्यप्रा । कक्ष्य । प्रा । अथ । नः । इन्द्र । सोमपाः । सोम । पाः । गिराम् । उपश्रुतिम् । उप । श्रुतिम् । चर ॥१३४६॥

Samveda - Mantra Number : 1346
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोमपाः) सौम्यगुणानाम् रक्षक (इन्द्र) परमात्मन् ! यथा त्वम् (केशिना) केशिनौ सूर्यरश्मियुक्तौ। [केशी केशा रश्मयस्तैस्तद्वान् भवति। निरु० १२।२५।] (वृषणा) वृषणौ बलवन्तौ, (कक्ष्यप्रा) कक्ष्यप्रौ स्वस्वभ्रमणकक्षामनुधावमानौ। [कक्ष्यां सूर्यपरिभ्रमणमार्गं प्रवेते गच्छतः यौ तौ।] (हरी) परस्पराकर्षणयुक्तौ चन्द्रभूगोलौ परस्परं योजयसि, तथैव (केशिना) जीवात्मप्रकाशयुक्तौ (वृषणा) बलवन्तौ कक्ष्यप्रा स्वस्वविषयकक्षामनुधावमानौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युङ्क्ष्व) परस्परं सहयोगिनौ कुरु। (अथ) एवं च (नः) अस्माकम् (गिराम्) सर्वासां प्रार्थनावाचाम् (उपश्रुतिम्) श्रवणम्, पूर्तिम् (चर) कुरु ॥३॥२ अत्र श्लिष्टो वाचकलुप्तोपमालङ्कारः ॥३॥
Essence
यथा भूलोकचन्द्रलोकौ परस्परं सामञ्जस्येन वर्तमानौ सूर्यं परितो भ्रमतस्तथैव ज्ञानेन्द्रियकर्मेन्द्रिये पारस्परिकसहयोगेन मनुष्यस्य जीवनं सञ्चालयतः ॥३॥ अस्मिन् खण्डेऽध्यात्मविषयस्य राष्ट्रविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालराम-भगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके पञ्चमः प्रपाठकः समाप्तिमगात् ॥
Subject
अथ परमेश्वरं प्रार्थयते।