Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1345

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣢꣫त्सानोः꣣ सा꣡न्वारु꣢꣯हो꣣ भू꣡र्यस्प꣢꣯ष्ट꣣ क꣡र्त्व꣢म् । त꣢꣫दिन्द्रो꣣ अ꣡र्थं꣢ चेतति यू꣣थे꣡न꣢ वृ꣣ष्णि꣡रे꣢जति ॥१३४५॥

य꣢त् । सा꣡नोः꣢꣯ । सा꣡नु꣢꣯ । आ꣡रु꣢꣯हः । आ꣣ । अ꣡रुहः꣢꣯ । भू꣡रि꣢꣯ । अ꣡स्प꣢꣯ष्ट । क꣡र्त्व꣢꣯म् । तत् । इ꣡न्द्रः꣢꣯ । अ꣡र्थ꣢꣯म् । चे꣣तति । यूथे꣡न꣢ । वृ꣣ष्णिः꣢ । ए꣣जति ॥१३४५॥

Mantra without Swara
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥

यत् । सानोः । सानु । आरुहः । आ । अरुहः । भूरि । अस्पष्ट । कर्त्वम् । तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥१३४५॥

Samveda - Mantra Number : 1345
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
मनुष्यः (यत्) यदा (सानोः सानु) शिखरात् उच्चतरं शिखरान्तरम्, एकं लक्ष्यं प्राप्य उच्चतरं लक्ष्यान्तरमित्यर्थः (आरुहः) आरोहति। [अत्र पुरुषव्यत्ययः।] (भूरि) बहु च (कर्त्वम्) कर्तुं योग्यं कार्यम् (अस्पष्ट) स्पृशति, करोतीत्यर्थः। [स्पश बाधनस्पर्शयोः, भ्वादिः। लडर्थे लुङ्,व्यत्ययेनात्मनेपदम्।] (तत्) तदा (इन्द्रः) विघ्नविदारकः परमेश्वरः तस्य (अर्थम्) उद्देश्यम् (चेतति) जानाति, अपि च (वृष्णिः) बलसुखादीनां वर्षकः सन् (यूथेन)) गुणगणेन सह (एजति) तं प्राप्नोति [एजति गतिकर्मा। निघं० २।१४] ॥२॥२
Essence
प्रगतिपथं गच्छतो मानवस्य जगदीश्वरः परमः सहायको जायते ॥२॥
Subject
अथ परमेश्वरस्य सहायकत्वमाह।