Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1344

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥१३४४॥

गा꣡य꣢꣯न्ति । त्वा꣣ । गायत्रि꣡णः꣢ । अ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । अ꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । शतक्रतो । शत । क्रतो । उ꣢त् । व꣣ꣳश꣢म् । इ꣣व । येमिरे ॥१३४४॥

Mantra without Swara
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥

गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो । शत । क्रतो । उत् । वꣳशम् । इव । येमिरे ॥१३४४॥

Samveda - Mantra Number : 1344
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शतक्रतो) शतं बहूनि कर्माणि प्रज्ञानानि वा यस्य तथाविध इन्द्र जगदीश्वर ! (त्वा) गेयं त्वाम् (गायत्रिणः) गायत्राणि प्रशस्तानि छन्दांस्यधीतानि विद्यन्ते येषां ते धार्मिका ईश्वरोपासकाः। [अत्र प्रशंसायामिनिः।] (गायन्ति) सामवेदादिगानेन प्रशंसन्ति। (अर्किणः) अर्का मन्त्रा ज्ञानसाधना येषां ते (अर्कम्) अर्च्यते पूज्यते सर्वैर्जनैर्यस्तं त्वाम् (अर्चन्ति) नित्यं पूजयन्ति। (ब्रह्माणः) वेदार्थान् विदित्वा क्रियावन्तो विद्वांसः (त्वा) त्वां जगत्स्रष्टारम् (उद्येमिरे) उद्यच्छन्ति, (वंशम् इव) यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशम् (उद्येमिरे) उद्यमवन्तं कुर्वन्ति तथा ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
सर्वैर्जनैः परमेश्वरस्यैव गानमर्चनं च कर्तव्यम्, तत्सदृशस्य तदधिकस्य वाऽन्यस्य कस्यचिद् अविद्यमानत्वात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३४२ क्रमाङ्के परमेश्वरार्चनविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।