Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1343

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
क꣣दा꣡ मर्त꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ क्षुम्प꣢꣯मिव स्फुरत् । क꣣दा꣡ नः꣢꣯ शुश्रव꣣द्गि꣢र꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४३॥

क꣣दा꣢ । म꣡र्त꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । प꣣दा꣢ । क्षु꣡म्प꣢꣯म् । इ꣡व । स्फुरत् । कदा꣢ । नः꣣ । शुश्रवत् । गि꣡रः꣢꣯ । इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ ॥१३४३॥

Mantra without Swara
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥

कदा । मर्तम् । अराधसम् । अ । राधसम् । पदा । क्षुम्पम् । इव । स्फुरत् । कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥१३४३॥

Samveda - Mantra Number : 1343
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अङ्ग) हे भद्र ! (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा भवान् (कदा) कस्मिन् काले (अराधसम्) समाजसेवामकुर्वाणम् (मर्तम्) मनुष्यम् (पदा) पादेन (क्षुम्पम्२ इव) अहिच्छत्रकम् इव (स्फुरत्) विचालयिष्यति। [स्फुरति हन्तिकर्मा। निघं० २।१९।, लेटि रूपम्।] (कदा) कस्मिन् काले, (नः) अस्मान् (गिरः) स्वकीयाः सन्देशवाचः (शुश्रवत्) श्रावयिष्यति। [शृणोतेर्णिचि लुङि रूपम्। अडागमाभावश्छान्दसः] ॥३॥३ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—[क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति। कदा नः श्रोष्यति गिर इन्द्रो अङ्ग। अङ्गेति क्षिप्रनाम। निरु० ५।१७।] ॥ अत्रोपमालङ्कारः ॥३॥
Essence
परमात्मवन्नृपतिरपि दुष्टान् दण्डयेत् सज्जनानां च वाचः शुणृयात् स्वकीयाश्च रमणीया उपदेशप्रदा वाचस्तान् श्रावयेत् ॥३॥
Subject
अथ पुनरपि स एव विषयो वर्ण्यते।