Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1342

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
य꣢श्चि꣣द्धि꣡ त्वा꣢ ब꣣हु꣢भ्य꣣ आ꣢ सु꣣ता꣡वा꣢ꣳ आ꣣वि꣡वा꣢सति । उ꣣ग्रं꣡ तत्प꣢꣯त्यते꣣ श꣢व꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४२॥

यः । चि꣣त् । हि꣢ । त्वा꣣ । बहु꣡भ्यः꣢ । आ । सु꣣ता꣢वा꣢न् । आ꣣वि꣡वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । उ꣣ग्र꣢म् । तत् । प꣣त्यते । श꣡वः꣢꣯ । इ꣡न्द्र꣢꣯ । अ꣣ङ्ग꣢ ॥१३४२॥

Mantra without Swara
यश्चिद्धि त्वा बहुभ्य आ सुतावाꣳ आविवासति । उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥

यः । चित् । हि । त्वा । बहुभ्यः । आ । सुतावान् । आविवासति । आ । विवासति । उग्रम् । तत् । पत्यते । शवः । इन्द्र । अङ्ग ॥१३४२॥

Samveda - Mantra Number : 1342
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे परमात्मन् ! (बहुभ्यः आ) अनेकेभ्यः (यः चित् हि) यः खलु (सुतावान्) अभिषुतश्रद्धारसः (त्वा) त्वाम् (आ विवासति) पूजयति सः (तत्) अद्वितीयम् (उग्रं शवः) प्रचण्डम् आत्मबलम् (पत्यते) प्राप्नोति। [पत्लृ पतने, भ्वादिः, व्यत्ययेन श्यन्।] (अङ्ग) हे भद्र ! स त्वम् (इन्द्रः) इन्द्रनामा असि ॥ द्वितीयः—नृपतिपरः। हे राजन् ! (यः चित् हि) यः खलु प्रजाजनः (बहुभ्यः) अनेकेभ्यः (आ) आनीय निर्वाच्य (सुतावान्) कृताभिषेकः (त्वा) त्वाम् (आ विवासति) सत्करोति, सः (तत्) अद्वितीयम् (उग्रं शवः) प्रचण्डं बलम् (पत्यते) प्राप्नोति। (अङ्ग) हे भद्र ! स त्वम् (इन्द्रः) इन्द्रनाम्ना कीर्त्यसे ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा परमेश्वरः स्वस्तोतृभ्य आत्मबलं प्रयच्छति तथैव राष्ट्रे नृपतिरपि प्रजाजनेष्वात्मविश्वासमुत्पादयेत् ॥२॥
Subject
अत पुनस्तमेव विषयमाह।