Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1340

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡यु꣢द्ध꣣ इ꣢द्यु꣣धा꣢꣫ वृत꣣ꣳ शू꣢र꣣ आ꣡ज꣢ति꣣ स꣡त्व꣢भिः । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३४०॥

अ꣡यु꣢꣯द्ध । अ । यु꣣द्ध । इ꣢त् । यु꣣धा꣢ । वृ꣡त꣢꣯म् । शू꣡रः꣢꣯ । आ । अ꣣जति । स꣡त्व꣢꣯भिः । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१३४०॥

Mantra without Swara
अयुद्ध इद्युधा वृतꣳ शूर आजति सत्वभिः । येषामिन्द्रो युवा सखा ॥

अयुद्ध । अ । युद्ध । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वभिः । येषाम् । इन्द्रः । युवा । सखा । स । खा ॥१३४०॥

Samveda - Mantra Number : 1340
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(येषाम्) जनानाम् (युवा) तरुणः (इन्द्रः) वीरः परमेश्वरो वीरो राजा वा (सखा) सहायको जायते, तेषाम् (शूरः) विक्रान्तो जीवात्मा सेनापतिर्वा (अयुद्धः इत्) स्वयं परैर्योद्धुमशक्य एव (युधा) देवासुरसंग्रामे (वृतम्) परिवृतं कामक्रोधादिकं षड्रिपुवर्गं मानवं शत्रुदलं वा (सत्वभिः) आत्मीयैः पराक्रमैः (आ अजति) आहत्य दूरं प्रक्षिपति। [अज गतिक्षेपणयोः, भ्वादिः] ॥३॥
Essence
यथा जगदीश्वरं सखायं वृत्वा योगसाधका जना योगमार्गे समागतान् सर्वान् विघ्नान् निवारयन्ति तथैव वीरं जनं राजपदे सेनापतिपदे चाभिषिच्य प्रजाजनाः सर्वान् शत्रून् विघ्नन्ति ॥३॥
Subject
अथ पुनरपि तमेव विषयं वर्णयति।