Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 134

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
भि꣣न्धि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣢षः꣣ प꣢रि꣣ बा꣡धो꣢ ज꣣ही꣡ मृधः꣢꣯ । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१३४॥

भि꣣न्धि꣢ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । प꣡रि꣢ । बा꣡धः꣢꣯ । ज꣣हि꣢ । मृ꣡धः꣢꣯ । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१३४॥

Mantra without Swara
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥

भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर ॥१३४॥

Samveda - Mantra Number : 134
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! विद्यावीर, दयावीर, बलवीर परमात्मन् राजन् आचार्य वा ! त्वम् (विश्वाः) समस्ताः (द्विषः२) द्वेषवृत्तीः, कामक्रोधलोभाद्यसुराणां मानवरिपूणां च द्वेष्ट्रीः सेना वा (अप भिन्धि) अपविदारय, (बाधः३) बाधकान्, सन्मार्गे विघ्नकरान्। बाध धातोः क्विपि, द्वितीयाबहुवचने रूपम्। (मृधः४) संग्रामोत्पादकान् पाप्मनः च। मृध इति संग्रामनाम। निघं० २।१७। पाप्मा वै मृधः। श० ६।३।३।८ (परि जहि) परितो विनाशय। संहितायाम् अन्येषामपि दृश्यते इति दीर्घः। (तत्) प्रसिद्धम् (स्पार्हम्) स्पृहणीयम् (वसु) सत्याहिंसारोग्यविद्यासुवर्णादिकम् आध्यात्मिकं भौतिकं च धनम् (आभर) अस्मभ्यं प्रयच्छ ॥१०॥
Essence
मनुष्यैः परमात्मनो नृपतेराचार्यस्य च साहाय्येन मार्गाद् रागद्वेषपापविघ्नबाधादिकमपसार्य सर्वविधं धनं च प्राप्य विजेतव्यम् ॥१०॥ अत्रेन्द्राख्यस्य परमेश्वरादिकस्य गुणवर्णनात्, ततः सकाशादैश्वर्यप्रार्थनात्, तं प्रति प्रणामार्पणात्, ततः शत्रुविनाशस्य स्पृहणीयवसुप्रदानस्य च याचनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विज्ञेयम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे चतुर्थी दशतिः। इति द्वितीयाध्याये द्वितीयः खण्डः ॥
Subject
अथ परमात्मा राजाऽऽचार्यश्च विघ्नविनाशाय वसुप्रदानाय च प्रार्थ्यते।
Footnote
१. ऋ० ८।४५।४०, अ० २०।४३।१, साम० १०७०। २. द्विषः द्वेष्ट्रीः शत्रुसेनाः—इति सा०। ३. बाधा पीडा। सर्वतो यो बाधां करोति स बाधयति। बाधयतेः क्विप्। बाधः। तान् सर्वतः पीडाकरानित्यर्थः—इति वि०। बाधः, बाधकान्। बाधतेः क्विप्—इति भ०। बाधः हिंसित्रीः मृधः संग्रामान्—इति सा०। ४. मृधः संग्रामनाम। मृधं करोति मृधयति। मृधयतेः क्विप्। तान् मृधः संग्रामकारिणः इत्यर्थः—इति वि०। मृधः हिंसकान्—इति भ०।