Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1339

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
बृ꣣ह꣢꣫न्निदि꣣ध्म꣡ ए꣢षां꣣ भू꣡रि꣢ श꣣स्त्रं꣢ पृ꣣थुः꣡ स्वरुः꣢꣯ । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३९॥

बृह꣢न् । इत् । इ꣣ध्मः꣢ । ए꣣षाम् । भू꣡रि꣢꣯ । श꣣स्त्र꣢म् । पृ꣣थुः꣢ । स्व꣡रुः꣢꣯ । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१३३९॥

Mantra without Swara
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥

बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्त्रम् । पृथुः । स्वरुः । येषाम् । इन्द्रः । युवा । सखा । स । खा ॥१३३९॥

Samveda - Mantra Number : 1339
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(येषाम्) जनानाम् (युवा) तरुणः (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा (सखा) सहायको जायते (एषाम्) तेषाम् एतेषाम् (बृहन् इत्) महान् एव (इध्मः) प्रतापः, (भूरि) प्रचुरम् (शस्त्रम्) स्तोत्रम् आयुधं वा, किञ्च (पृथुः) विशालः (स्वरुः) यूपः, यूपोपलक्षितो यज्ञः इत्यर्थः, भवति ॥२॥
Essence
परमेश्वरोपासकाः श्रेष्ठनृपाभिषेक्तारश्च यशस्विनो विजयिनो यज्ञपरायणाश्च जायन्ते ॥२॥
Subject
अथ पुनः स एव विषय उच्यते।