Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1338

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क् । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३८॥

आ꣢ । घ꣣ । ये꣢ । अ꣣ग्नि꣢म् । इ꣣न्ध꣡ते꣢ । स्तृ꣣ण꣡न्ति꣢ । ब꣣र्हिः꣢ । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ ॥१३३८॥

Mantra without Swara
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥

आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । अनुषक् । अनु । सक् । येषाम् । इन्द्रः । युवा । सखा ॥१३३८॥

Samveda - Mantra Number : 1338
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(येषाम्) उपासकानां प्रजाजनानां वा (युवा) तरुणः (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा (सखा) सहायको जायते, (ये घ) ये च (अग्निम्) ईश्वरभक्तेः राष्ट्रभक्तेर्वा अग्निम् (आ इन्धते) स्वान्तःकरणे प्रदीपयन्ति, ते (आनुषक्) निरन्तरम् (बर्हिः) ब्रह्मयज्ञं राष्ट्रयज्ञं वा (स्तृणन्ति) विस्तारयन्ति ॥१॥
Essence
मनुष्यैः परमेश्वर एवोपास्यत्वेन वरणीयः। प्रजाजनैश्च तरुणो राष्ट्ररक्षणक्षम एव जनो नृपतित्वेन स्वीकार्यः, स्वयं च राष्ट्रभक्तैर्भाव्यम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १३३ क्रमाङ्केऽध्यात्मपक्षे व्याख्याता। अत्राध्यात्मविषयो राष्ट्रविषयश्च वर्ण्यते।