Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1337

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡र्षा꣢ नः सोम꣣ शं꣡ गवे꣢꣯ धु꣣क्ष꣡स्व꣢ पि꣣प्यु꣢षी꣣मि꣡ष꣢म् । व꣡र्धा꣢ स꣣मु꣡द्र꣢मुक्थ्य ॥१३३७॥

अ꣡र्ष꣢꣯ । नः꣣ । सोम । श꣢म् । ग꣡वे꣢꣯ । धु꣣क्ष꣡स्व꣢ । पि꣣प्यु꣡षी꣢म् । इ꣡ष꣢꣯म् । व꣡र्ध꣢꣯ । स꣡मुद्र꣢म् । स꣣म् । उ꣢द्रम् । उ꣣क्थ्य ॥१३३७॥

Mantra without Swara
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । वर्धा समुद्रमुक्थ्य ॥

अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् । वर्ध । समुद्रम् । सम् । उद्रम् । उक्थ्य ॥१३३७॥

Samveda - Mantra Number : 1337
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगत्स्रष्टः शान्तिप्रिय परमात्मन् ! त्वम् (नः) अस्माकम् (गवे) सम्पूर्णधरित्र्यै (शम्) सुखं शान्तिं च (अर्ष) प्रापय, अस्मभ्यम् (पिप्युषीम्) समृद्धाम् [ओप्यायी वृद्धौ, लिटः क्वसौ रूपम्।] (इषम्) अभीष्टां सम्पत्तिम् (धुक्ष्व) प्रदेहि। हे (उक्थ्य) स्तुत्यर्ह ! (समुद्रम्) सद्गुणानां सागरं जीवात्मानम् यद्वा, तत्र विद्यमानम् आनन्दस्य सागरम् (वर्ध) वर्धय। यथा सोमेन चन्द्रमसाऽपां राशिः समुद्रो वर्ध्यते इति ध्वन्यते ॥३॥
Essence
परमात्मकृपया मानवानां प्रयासेन च सकलापि धरा सुखं शान्तिं प्रचुरां सम्पदं च प्राप्नुयात्, तन्निवासिनश्च परस्परं प्रेम्णा व्यवहरेयुः ॥३॥ अस्मिन् खण्डे परमात्मनो ब्रह्मानन्दस्य गुरुशिष्ययोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ परमात्मानं प्रार्थयते।