Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1336

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣡मिद्व꣢꣯र्धन्तु नो꣣ गि꣡रो꣢ व꣣त्स꣢ꣳ स꣣ꣳशि꣡श्व꣢रीरिव । य꣡ इन्द्र꣢꣯स्य हृद꣣ꣳस꣡निः꣢ ॥१३३६॥

त꣢म् । इत् । व꣢र्धन्तु । नः । गि꣡रः꣢꣯ । व꣣त्स꣢म् । स꣣ꣳशि꣡श्व꣢रीः । स꣣म् । शि꣡श्व꣢꣯रीः । इ꣣व । यः꣢ । इ꣡न्द्र꣢꣯स्य । हृ꣣दꣳस꣡निः꣢ ॥१३३६॥

Mantra without Swara
तमिद्वर्धन्तु नो गिरो वत्सꣳ सꣳशिश्वरीरिव । य इन्द्रस्य हृदꣳसनिः ॥

तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । सꣳशिश्वरीः । सम् । शिश्वरीः । इव । यः । इन्द्रस्य । हृदꣳसनिः ॥१३३६॥

Samveda - Mantra Number : 1336
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तम् इत्) तं खलु सोमं शान्तिदायकं परमात्मानम् (नः गिरः) अस्माकं वाचः (सं वर्धन्तु) संवर्धयन्तु, संवर्धनं चात्र प्रचारणं ज्ञेयम्। कथमिव ? (शिश्वरीः) वृद्धपयस्का (दोग्ध्र्यो गावः)। [टुओश्वि गतिवृद्ध्योः इत्यस्य रूपम्।] (वत्सम् इव) यथा स्वकीयं वत्सं पयसा वर्धयन्ति तथा। कीदृशम् परमात्मानम् ? (यः) सोमः परमात्मा (इन्द्रस्य) जीवात्मनः (हृदंसनिः) हृदयसेवी वर्तते। [हृदं हृदयं सनति संभजते यः स हृदंसनिः। द्वितीयाया अलुक्। षण सम्भक्तौ] ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
विद्वद्भिर्धार्मिकैर्जनैः स्वोपदेशैः जनतायां परमेश्वरं प्रति विश्वास उत्पादनीयः, येन सर्वत्राऽऽस्तिकताया धार्मिकतायाश्च वातावरणं भवेत् ॥२॥
Subject
अथ परमात्मविषयमाह।