Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1335

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम् । इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥१३३५॥

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥१३३५॥

Mantra without Swara
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥

उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥१३३५॥

Samveda - Mantra Number : 1335
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (सु जातम्) सुप्रसिद्धम्, (अप्तुरम्) अपः व्यापकान् चन्द्रसूर्यग्रहनक्षत्रादिलोकान् त्वरयति वेगेन चालयतीति तम्, (गोभिः) वेदवाग्भिः (भङ्गम्) कामक्रोधादिरिपूणां भञ्जकम्, (परिष्कृतम्) गुणैरलङ्कृतम्। [संपर्युपेभ्यः करोतौ भूषणे। अ० ६।१।१३७ इत्यनेन परिपूर्वात् करोतेः भूषणेऽर्थे सुडागमः।] (इन्दुम्) तेजसा दीप्तम्, आनन्दरसैः क्लेदकं परमात्मानम्। [इन्दुः इन्धेरुनत्तेर्वा। निरु० १०।४०।] (देवाः) विद्वांसो जना आत्ममनोबुद्धिप्राणादयो वा, बलप्राप्त्यर्थम् (उप उ अयासिषुः) उपगच्छन्ति ॥ द्वितीयः—चन्द्रपरः। (सुजातम्) पृथिव्याः सुपुत्रम्, (अप्तुरम्) अप्सु अन्तरिक्षे त्वरते पृथिवीं सूर्यं च परितो धावतीति अप्तुरः तम्। [आपः इत्यन्तरिक्षनामसु पठितम्। निघं० १।३।] (गोभिः भङ्गम्) क्वचिद् भग्नभूमिकम्, क्वचिच्च (परिष्कृतम्) समतलम् (इन्दुम्) चन्द्रमसम् (देवाः) सूर्यकिरणाः (अयासिषुः) प्रकाशनार्थं गच्छन्ति ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
यथा सर्वे जडपदार्थाश्चेतनाः प्राणिनश्च जगदीश्वरमाश्रयन्ते तथाऽस्माकं सौरलोकस्य मङ्गलबुधपृथिवीचन्द्रादयो ग्रहोपग्रहाः सूर्यमाश्रयन्ते सूर्यश्चापि जगदीश्वराधीनः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४८७ क्रमाङ्के परमात्मप्राप्तिविषये उत्तरार्चिके ७६२ क्रमाङ्के च जीवात्मनृपत्योर्विषये व्याख्यातपूर्वा। अत्र परमात्मचन्द्रमसोर्विषय उच्यते।