Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1332

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥१३३२॥

प꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥१३३२॥

Mantra without Swara
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥

पवस्व । सोम । महे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥१३३२॥

Samveda - Mantra Number : 1332
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) विद्यारसागार आचार्य ! त्वम्, शिष्यस्य (महे दक्षाय) महते उत्साहाय। [दक्षतिः उत्साहकर्मा। निरु० १।६।] (पवस्व) ज्ञानधारां प्रवाहय, येन स तव शिष्यः (अश्वः न) सूर्यः इव [असौ वा आदित्य एषो अश्वः। श० ७।३।२।१०] (निक्तः) शुद्धः, (वाजी), विद्यावान् वेगवान् कर्मनिष्ठो भूत्वा (धनाय) धनोपार्जनाय योग्यो भवेत् ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
इदमपि शिक्षाया एकं प्रयोजनं यच्छिष्यो विद्वान् बलवान् वर्चस्वी शुद्धहृदयश्च भूत्वा धनार्जनक्षमो भवेत् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४३० क्रमाङ्के परमेश्वरनृपत्योर्विषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।