Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1330

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
द्वि꣢꣫र्यं पञ्च꣣ स्व꣡य꣢शस꣣ꣳ स꣡खा꣢यो꣣ अ꣡द्रि꣢सꣳहतम् । प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्यं꣢ प्रस्ना꣣प꣡य꣢न्त ऊ꣣र्म꣡यः꣢ ॥१३३०॥

द्विः꣢ । यम् । प꣡ञ्च꣢꣯ । स्व꣡य꣢꣯शसम् । स्व । य꣣शसम् । स꣡खा꣢꣯यः । स । खा꣣यः । अ꣡द्रि꣢सꣳहतम् । अ꣡द्रि꣢꣯ । स꣣ꣳहतम् । प्रिय꣣म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । प्र꣣स्नाप꣡य꣢न्ते । प्र꣣ । स्नाप꣡य꣢न्ते । ऊ꣣र्म꣡यः꣢ ॥१३३०॥

Mantra without Swara
द्विर्यं पञ्च स्वयशसꣳ सखायो अद्रिसꣳहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥

द्विः । यम् । पञ्च । स्वयशसम् । स्व । यशसम् । सखायः । स । खायः । अद्रिसꣳहतम् । अद्रि । सꣳहतम् । प्रियम् । इन्द्रस्य । काम्यम् । प्रस्नापयन्ते । प्र । स्नापयन्ते । ऊर्मयः ॥१३३०॥

Samveda - Mantra Number : 1330
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्वयशसम्) स्वकीयकीर्तिम्, (अद्रिसंहतम्) पर्वतवद् दृढाङ्गम्, (इन्द्रस्य प्रियम्) कुलपतेः वत्सलम्, (काम्यम्) अन्येषामपि अभिलषणीयम् (यम्) यं विद्यार्थिनम् (द्विः पञ्च) द्विवारं पञ्च, दशेत्यर्थः (सखायः) सहयोगिनो विद्वांसो गुरवः (ऊर्मयः) जलतरङ्गा इव भूत्वा (प्रस्नापयन्ते) ज्ञाननद्यां स्नानं कारयन्ति, स प्रशस्यो भवतीति वाक्यपूर्तिर्विधेया ॥२॥ ऊर्मय इवेति लुप्तोपमालङ्कारः ॥२॥
Essence
चत्वारो वेदाः षड्वेदाङ्गानि चेति दश विद्याः। उपवेदा उपाङ्गानि चात्रैवान्तर्भवन्ति। प्रतिविद्यमेकैको गुरुरिति दश गुरवो भवन्ति। वेदाङ्गैश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षड् मूलविद्या ग्राह्या न तु तत्तत्प्रतिपादका वर्तमानग्रन्थाः, उत्तरवर्तिनां तेषां मनुष्यप्रणीतानां ग्रन्थानां वेदे सङ्केतासम्भवात् ॥२॥
Subject
अथ पुनर्गुरुशिष्यविषयमाह।