Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 133

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क् । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३॥

आ꣢ । घा꣣ । ये꣢ । अ꣣ग्नि꣢म् । इ꣣न्ध꣡ते꣢ । स्तृ꣣ण꣡न्ति꣢ । ब꣣र्हिः꣢ । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ । ॥१३३॥

Mantra without Swara
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥

आ । घा । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । अनुषक् । अनु । सक् । येषाम् । इन्द्रः । युवा । सखा । स । खा । ॥१३३॥

Samveda - Mantra Number : 133
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ये) जनाः (घ) निश्चयेन। संहितायाम् ऋचि तु नु घ० अ० ६।३।१३३ इति दीर्घः। (अग्निम्) यज्ञाग्निम्, उत्साहाग्निं, संकल्पाग्निं, महत्त्वाकांक्षाया अग्निम्, आत्माग्निं वा (आ इन्धते) आभिमुख्येन प्रदीपयन्ति, (येषां) येषां च जनानाम् (युवा) नित्यतरुणः, सदा सशक्तः (इन्द्रः) पराक्रमशाली परमेश्वरः (सखा) सहायकः जायते, ते जनाः (आनुषक्) आनुपूर्व्येण। आनुषग् इति नाम अनुपूर्वस्य, अनुषक्तं भवति। निरु० ६।१४। (बर्हिः) दर्भासनं तदुपलक्षितं यज्ञं, यज्ञसाधनानि वा (स्तृणन्ति) प्रसारयन्ति, स्तॄञ् आच्छादने, क्र्यादिः। निरन्तरं यज्ञकर्मसु संलग्ना भवन्तीत्याशयः ॥९॥२
Essence
येषां हृदयेऽग्निर्न जाज्वलीति, ते निष्क्रिया अलसाः सन्तो जीवनं यापयन्ति। ते तु स्वार्थसाधनेऽपि मन्दाः, किमुत परार्थसाधनरूपयज्ञकर्मकरणे। परं ये नित्यमग्निहोत्राग्निं, ततश्च प्रेरणां प्राप्योत्साहाग्निं, संकल्पाग्निं, महत्त्वाकांक्षाया अग्निम् आत्माग्निं च प्रदीपयन्ति, ये च नित्यतरुणं, परेषां दुःखदारिद्र्यविदारकं, शत्रुविजेतारं, सृष्टियज्ञकर्त्तारं, शतक्रतुमिन्द्रं परमेश्वरं सखायं कुर्वन्ति, ते सदैव मनसि स्फूर्तिं कर्मण्यतामुदारतां च धारयन्तः सततं परोपकारकर्मसु संयुज्यन्ते ॥९॥
Subject
इन्द्रस्य सखित्वेनाग्निसमिन्धनेन च को लाभ इत्याह।
Footnote
१. ऋ० ८।४५।१, य० ७।३२ पूर्वार्द्धः। २. अत्र “(ये) वेदपारगा विद्वांसः सभासदः (अग्निम्) विद्युदादिस्वरूपम् (इन्धते) प्रदीपयन्ति, (आनुषग्) अनुकूलतया (बर्हिः) अन्तरिक्षं (स्तृणन्ति) यन्त्रैश्छादयन्ति (येषाम्) विदुषाम् (युवा) तरुणावस्थः (इन्द्रः) सकलैश्वर्यवान् सभापतिः प्रत्येकाङ्गपुष्टः (सखा) सुहद् अस्तीत्यादि” दयानन्दर्षिकृतं व्याख्यानं य० ७।३२ भाष्ये द्रष्टव्यम्।