Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1329

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वा꣣ꣳ इ꣢꣫त्परि꣣ म꣡दे꣢न स꣣ह꣡ गच्छ꣢꣯ति ॥१३२९॥

प꣡रि꣢꣯ । त्यम् । ह꣣र्यत꣢म् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इत् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥१३२९॥

Mantra without Swara
परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाꣳ इत्परि मदेन सह गच्छति ॥

परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥१३२९॥

Samveda - Mantra Number : 1329
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हर्यतम्) प्रियम्, (हरिम्) विद्याहरणशीलम्, (बभ्रुम्) अज्ञानादिदोषैः धूसरात्मानम् (त्यम्) तं विद्यार्थिनम्, गुरुजनाः (वारेण) दोषनिवारकेण यमनियमादिना (परि पुनन्ति) परिशोधयन्ति। (यः) विद्यार्थी (मदेन सह) उत्साहेन साकम् (विश्वान् इत् देवान्) सर्वानेव विदुषो गुरुजनान् (परि गच्छति) परि प्राप्नोति ॥१॥
Essence
गुरूणामिदं कर्तव्यं यत्ते प्रियाणां विद्यार्थिनां दोषान् निवार्य तान् विदुषः प्रशस्तचरित्रांश्च कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५५२ क्रमाङ्के जीवात्मशोधनविषये व्याख्याता। अत्र गुरुशिष्यविषय उच्यते।