Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1328

1875 Mantra
Devata- पवमानः सोमः Rishi- मनुराप्सवः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥

आ꣢ । नः꣣ । सुतासः । इन्दवः । पुनानाः꣢ । धा꣣वत । रयि꣢म् । वृ꣣ष्टि꣡द्या꣢वः । वृ꣣ष्टि꣢ । द्या꣣वः । रीत्यापः । रीति । आपः । स्वर्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥१३२८॥

Mantra without Swara
आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥

आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् । वृष्टिद्यावः । वृष्टि । द्यावः । रीत्यापः । रीति । आपः । स्वर्विदः । स्वः । विदः ॥१३२८॥

Samveda - Mantra Number : 1328
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुतासः) अभिषुताः (इन्दवः) ब्रह्मानन्दरसाः ! (पुनानाः) पावयन्तः यूयम् (नः) अस्मभ्यम् (रयिम्) सद्गुणैश्वर्यम् (आ धावत) आगमयत। हे (रीत्यापः) द्रुतप्रवाहाः ब्रह्मानन्दाः। [रीतयः गमनशीलाः आपः प्रवाहाः येषां ते रीत्यापः, री गतिरेषणयोः, क्र्यादिः, कर्तरि क्तिन्।] यूयम्, (वृष्टिद्यावः) वृष्टिः विज्ञानवर्षणकरी द्यौः मस्तिष्कभूमिः यैस्तथाविधाः, मस्तिष्काद् विज्ञानवृष्टिं कुर्वाणाः इत्यर्थः, (स्वर्विदः) दिव्यप्रकाशलम्भकाश्च, स्थ इति शेषः ॥३॥
Essence
ब्रह्मानन्देनान्तरात्मनि प्रकाशिते पवित्रीकृते च मस्तिष्कभूमिरप्युर्वरा सती विविधज्ञानविज्ञानादिकं जनयन्ती योगिनमुपकरोति ॥३॥
Subject
अथ पुनरपि स एव विषयो वर्ण्यते।