Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1327

1875 Mantra
Devata- पवमानः सोमः Rishi- मनुराप्सवः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त꣡व꣢ द्र꣣प्सा꣡ उ꣢द꣣प्रु꣢त꣣ इ꣢न्द्रं꣣ म꣡दा꣢य वावृधुः । त्वां꣢ दे꣣वा꣡सो꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥१३२७॥

त꣡व꣢꣯ । द्र꣣प्साः꣢ । उ꣣दप्रु꣡तः꣢ । उ꣣द । प्रु꣡तः꣢꣯ । इ꣡न्द्र꣢꣯म् । म꣡दा꣢꣯य । वा꣣वृधुः । त्वा꣢म् । दे꣣वा꣡सः꣢ । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । कम् । प꣣पुः ॥१३२७॥

Mantra without Swara
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥

तव । द्रप्साः । उदप्रुतः । उद । प्रुतः । इन्द्रम् । मदाय । वावृधुः । त्वाम् । देवासः । अमृताय । अ । मृताय । कम् । पपुः ॥१३२७॥

Samveda - Mantra Number : 1327
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ! हे रसागार परमेश ! (तव) त्वदीयाः (द्रप्साः) द्रुतगामिनः आनन्दरसाः (उदप्रुतः) अन्तःकरणे तरङ्गोत्थापकाः भवन्ति। [उदकानि तरङ्गान् प्रवयन्ति उत्थापयन्तीति उदप्रुतः। प्रुङ् गतौ ण्यन्तः। उदकस्य उदादेशः।] ते (इन्द्रम्) जीवात्मानम् (मदाय) तृप्तिलाभाय (वावृधुः) वर्धयन्ति। (देवासः) विद्वांसः (कम्) कमनीयं सर्वातिक्रान्तं सुखस्वरूपं च [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२३।] (त्वाम्) त्वा (अमृताय) अमरपदप्राप्तये (पपुः) पिबन्ति, आस्वदन्ते ॥२॥
Essence
परमेश्वररूपाद्धिमालयान्निःसृतायामानन्दरसतरङ्गिण्यामेव स्नात्वा योगिनो जना मोक्षपदाधिकारिणो जायन्ते न तु भौतिकीषु गङ्गायमुनासरस्वत्यादिषु नदीषु स्नात्वा ॥२॥
Subject
अथ पुनः परमात्मन आनन्दरसान् वर्णयति।