Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1326

1875 Mantra
Devata- पवमानः सोमः Rishi- मनुराप्सवः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
प꣡व꣢स्व दे꣣व꣡वी꣢तय꣣ इ꣢न्दो꣣ धा꣡रा꣢भि꣣रो꣡ज꣢सा । आ꣢ क꣣ल꣢शं꣣ म꣡धु꣢मान्त्सोम नः सदः ॥१३२६॥

प꣡व꣢꣯स्व । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । इ꣡न्दो꣢꣯ । धा꣡रा꣢꣯भिः । ओ꣡ज꣢꣯सा । आ । क꣣ल꣡श꣢म् । म꣡धु꣢꣯मान् । सो꣣म । नः । सदः ॥१३२६॥

Mantra without Swara
पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम नः सदः ॥

पवस्व । देववीतये । देव । वीतये । इन्दो । धाराभिः । ओजसा । आ । कलशम् । मधुमान् । सोम । नः । सदः ॥१३२६॥

Samveda - Mantra Number : 1326
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) रसेन आर्द्रीकर्तः परमेश ! त्वम् (देववीतये) दिव्यगुणानां प्राप्तये (धाराभिः) आनन्दधाराभिः (ओजसा) वेगेन (पवस्व) अस्मदन्तःकरणे प्रक्षर। हे (सोम) रसागार ! (मधुमान्) मधुमयः त्वम् (नः) अस्माकम् (कलशम्) जीवात्मरूपम् (आ सदः) आसीद। [सदेर्विध्यर्थे लुङि रूपम्] ॥१॥
Essence
परमात्मध्यानमग्ना योगिनः परमात्मनः सकाशात् स्वमनोभूमौ निर्झरन्तमानन्दरसनिर्झरं साक्षादनुभवन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५७१ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।