Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1325

1875 Mantra
Devata- पवमानः सोमः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡ꣳ सु꣢ष्वा꣣णो꣡ अद्रि꣢꣯भिर꣣꣬भ्य꣢꣯र्ष꣣ क꣡नि꣢क्रदत् । द्यु꣣म꣢न्त꣣ꣳ शु꣢ष्म꣣मा꣡ भ꣢र ॥१३२५॥

त्व꣢म् । सु꣣ष्वाणः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । अभि꣢ । अ꣣र्ष । क꣡नि꣢꣯क्रदत् । द्यु꣣म꣡न्त꣢म् । शु꣡ष्म꣢꣯म् । आ । भ꣣र ॥१३२५॥

Mantra without Swara
त्वꣳ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । द्युमन्तꣳ शुष्ममा भर ॥

त्वम् । सुष्वाणः । अद्रिभिः । अ । द्रिभिः । अभि । अर्ष । कनिक्रदत् । द्युमन्तम् । शुष्मम् । आ । भर ॥१३२५॥

Samveda - Mantra Number : 1325
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवित्रीकर्त्तः रसागार परमेश ! (अद्रिभिः) प्रणवजपरूपैः पेषणपाषाणैः (सुष्वाणः) अभिषूयमाणः (त्वम् कनिक्रदत्) भूयो भूयः उपदिशन् (अभ्यर्ष) अस्मान् प्राप्नुहि, अपि च (द्युमन्तम्) तेजोयुक्तम् (शुष्मम्) आत्मबलम् (आ भर) आहर ॥३॥
Essence
उपासकश्चेत् परमात्मनः सकाशात् कर्तव्याकर्तव्योपदेशं तेजस्वितामात्मबलं च न प्राप्नोति तदा तस्योपासनायां काचित् त्रुटिरस्तीति मन्तव्यम् ॥३॥
Subject
अथ परमेश्वरः प्रार्थ्यते।