Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1322

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त्व꣡ꣳ हि रा꣢꣯धसस्पते꣣ रा꣡ध꣢सो म꣣हः꣢꣫ क्षय꣣स्या꣡सि꣢ विध꣣र्त्ता꣢ । तं꣡ त्वा꣢ व꣣यं꣡ म꣢घवन्निन्द्र गिर्वणः सु꣣ता꣡व꣢न्तो हवामहे ॥१३२२॥

त्व꣢म् । हि । रा꣣धसः । पते । रा꣡ध꣢꣯सः । म꣣हः꣢ । क्ष꣡य꣢꣯स्य । अ꣡सि꣢꣯ । वि꣣धर्त्ता꣢ । वि꣣ । धर्त्ता꣢ । तम् । त्वा꣣ । वय꣢म् । म꣣घवन् । इन्द्र । गिर्वणः । गिः । वनः । सुता꣡व꣢न्तः । ह꣣वामहे ॥१३२२॥

Mantra without Swara
त्वꣳ हि राधसस्पते राधसो महः क्षयस्यासि विधर्त्ता । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥

त्वम् । हि । राधसः । पते । राधसः । महः । क्षयस्य । असि । विधर्त्ता । वि । धर्त्ता । तम् । त्वा । वयम् । मघवन् । इन्द्र । गिर्वणः । गिः । वनः । सुतावन्तः । हवामहे ॥१३२२॥

Samveda - Mantra Number : 1322
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (राधसः पते) सकलऋद्धिसिद्धीनामधीश्वर जगदीश्वर आचार्यवर वा ! (त्वं हि) त्वं खलु (महः) महतः (क्षयस्य) निवासकस्य (राधसः) विद्यातपस्तेजस्वितादिरूपस्य धनस्य (विधर्ता) विधारकः (असि) विद्यसे। हे (मघवन्) विद्यादिदानवन् ! [मघं मंहतेर्दानकर्मणः। निरु० १।६।] (गिर्वणः) गीष्पते (इन्द्र) अविद्यादिविदारक जगदीश्वर आचार्य वा ! (सुतावन्तः) उपहृतश्रद्धारसाः (वयम्) उपासकाः विद्यार्थिनो वा (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥
Essence
यथा जगदीश्वरः सर्वेषां गुणानामधिपतिर्विद्यते तथैव स एवाचार्यो भवितुं योग्यो यो विद्वान् वाक्पतिस्तपस्वी जितेन्द्रियः शिक्षणकलाकुशलश्च भवेत् ॥२॥ अस्मिन् खण्डे जगदीश्वरविषयस्याचार्यविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ पुनरपि जगदीश्वरमाचार्यं च सम्बोधयति।