Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1321

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि । म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥१३२१॥

य꣡तः꣢꣯ । इ꣣न्द्र । भ꣡या꣢꣯महे । त꣡तः꣢꣯ । नः꣣ । अ꣡भ꣢꣯यम् । अ । भ꣣यम् । कृ꣡धि । मघ꣢꣯वन् । श꣣ग्धि꣢ । त꣡व꣢꣯ । तत् । नः꣣ । ऊत꣡ये꣢ । वि । द्वि꣡षः꣢꣯ । वि । मृ꣡धः꣢꣯ । ज꣣हि ॥१३२१॥

Mantra without Swara
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥

यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । अ । भयम् । कृधि । मघवन् । शग्धि । तव । तत् । नः । ऊतये । वि । द्विषः । वि । मृधः । जहि ॥१३२१॥

Samveda - Mantra Number : 1321
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर विद्यैश्वर्ययुक्त आचार्यप्रवर वा ! वयम् (यतः) यस्माद् अज्ञानपापदुर्व्यसनचौरव्याघ्रादिकात् (भयामहे) त्रस्यामः (ततः) तस्मात् (नः) अस्माकम् (अभयम्) निर्भयत्वम् (कृधि) कुरु। हे (मघवन्) अभयत्वधनेन धनवन् ! (शग्धि) अस्मान् शक्तान् कुरु। (तव) त्वदीयम् (तत्) अभयदानम् (नः) अस्माकम् (ऊतये) रक्षणाय भवतु इति शेषः। त्वम् (द्विषः) द्वेषवृत्तीः द्वेषकर्तॄन् पापादीन् वा (वि) विजहि, (मृधः) हिंसावृत्तीः संग्रामकारिणः कामक्रोधादीन् वा (वि जहि) विनाशय ॥१॥
Essence
यथा जगदीश्वरः स्वोपासकान् निर्भयान् करोति तथैवाचार्यो विद्याध्यापनेन साकं निर्भयतादिगुणानपि विद्यार्थिषूत्पादयेत् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २७४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र जगदीश्वर आचार्यश्च प्रार्थ्यते।