Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1320

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢ । यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥१३२०॥

अ꣡ल꣢꣯र्षिरातिम् । अ꣡ल꣢꣯र्षि । रा꣣तिम् । वसुदा꣢म् । व꣣सु । दा꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । भद्राः꣢ । इ꣡न्द्र꣢꣯स्य । रा꣣त꣡यः꣢ । यः । अ꣣स्य । का꣡म꣢꣯म् । वि꣣धतः꣢ । न । रो꣡ष꣢꣯ति । म꣡नः꣢꣯ । दा꣣ना꣡य꣢ । चो꣣द꣡य꣢न् ॥१३२०॥

Mantra without Swara
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥

अलर्षिरातिम् । अलर्षि । रातिम् । वसुदाम् । वसु । दाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । यः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥१३२०॥

Samveda - Mantra Number : 1320
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! त्वम् (अलर्षिरातिम्) शोभास्पददानम्। [अलति शोभते इति अलम्, अल भूषणपर्याप्तिवारणेषु भ्वादिः। अलं शोभां ऋषति गच्छतीति अलर्षिः, ऋषी गतौ तुदादिः। अलर्षिः रातिः यस्य सोऽलर्षिरातिः तम्।] (वसुदाम्) धनस्य दातारम् इन्द्रम् परमैश्वर्यवन्तं परमात्मानम् (उप स्तुहि) उपश्लोकय। (इन्द्रस्य) परमैश्वर्यशालिनः परमात्मनः (रातयः) दानपरम्पराः (भद्राः) कल्याणप्रदाः सन्ति। (मनः) स्वकीयं मानसम् (दानाय) त्यागाय (चोदयन्) प्रेरयन् (सः) इन्द्रः परमात्मा (विधतः) परिचरतः। [विधेम इति परिचरणकर्मसु पठितम्। निघं० ३।५।] (अस्य) उपासकस्य (कामम्) मनोरथम् (न रोषति) न हिनस्ति, तदभीष्टं ददात्येवेत्यर्थः। [रुष हिंसार्थः, भ्वादिः] ॥ अनर्शरातिम् इति ऋग्वेदीयः पाठो यास्काचार्येणैवं व्याख्यातः—[‘अनर्षरातिमनश्लीलदानम्। अश्लीलं पापकम्, अश्रिमद् विषमम्’ इति (निरु० ६।२३)] ॥२॥
Essence
यद् यस्य हिताय भवति तत् तस्मै जगदीश्वरो ददाति ॥२॥
Subject
अथ मनुष्यं परमात्मोपासनाय प्रेरयति।