Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 132

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣣य꣡मि꣢न्द्र त्वा꣣य꣢वो꣣ऽभि꣡ प्र नो꣢꣯नुमो वृषन् । वि꣣द्धी꣢ त्वा३꣱स्य꣡ नो꣢ वसो ॥१३२॥

व꣣य꣢म् । इ꣣न्द्र । त्वाय꣡वः꣢ । अ꣣भि꣢ । प्र । नो꣣नुमः । वृषन् । विद्धि꣢ । तु । अ꣣स्य꣢ । नः꣣ । वसो ॥१३२॥

Mantra without Swara
वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् । विद्धी त्वा३स्य नो वसो ॥

वयम् । इन्द्र । त्वायवः । अभि । प्र । नोनुमः । वृषन् । विद्धि । तु । अस्य । नः । वसो ॥१३२॥

Samveda - Mantra Number : 132
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृषन्) अभीप्सितानां सुखानां शक्तीनां धनादीनां च वर्षयितः (इन्द्र) परमैश्वर्यशालिन्, दुःखविदारक, शत्रुसंहारक परमात्मन् ! (वयम्) उपासकाः (त्वायवः) त्वां कामयमानाः, त्वत्प्रीतिपरवशाः सन्तः। त्वां कामयते इति त्वायुः, क्यचि क्याच्छन्दसि। अ० ३।२।१७० इति उः प्रत्ययः। (अभि प्र नोनुमः) त्वामभिलक्ष्य प्रकर्षतया भृशं पुनः पुनः स्तुमः प्रणमामो वा। णु स्तुतौ इत्यस्य यङ्लुकि प्रयोगः। हे (वसो) सर्वान्तर्यामिन्, निवासयितः देव ! त्वम् (अस्य२) क्रियमाणस्य स्तोत्रस्य प्रणतिकर्मणो वा। द्वितीयार्थे षष्ठी। (विद्धि तु) जानीहि तावत्। संहितायाम् अन्येषामपि दृश्यते। अ० ६।३।१३७ इति दीर्घः ॥८॥३
Essence
हे इन्द्र ! हे परमैश्वर्यशालिन् ! हे परमैश्वर्यप्रदातः ! हे विपद्विदारक ! हे धर्मप्रसारक ! हे अधर्मध्वंसक ! हे सुहृद्धारक ! हे रिपुविनाशक ! हे आनन्दधाराप्रवाहक ! हे सद्गुणवृष्टिकर्त्तः ! हे मनोरथप्रपूरक ! हे हृदयसदननिवासिन् ! हे निवासप्रद ! त्वत्प्रीतिरसमग्नास्त्वत्प्राप्तिसमुत्सुका वयम् भूयो भूयस्त्वां वन्दामहे, त्वां प्रणमामः, त्वद्गुणान् कीर्तयामः। त्वं नतशिरसाऽस्माभिः क्रियमाणं वन्दनं, प्रणामं, गुणकीर्तनं च जानीहि, स्वीकुरु, समुद्बोधय चास्मान् ॥८॥
Subject
अथ स्तोतारः परमात्मानमाहुः।
Footnote
१. ऋ० ७।३१।४, अथ० २०।१८।४, उभयत्र प्रणोनुमो इति पाठः। २. जानात्यर्थानां धातूनां प्रयोगे कर्मणि षष्ठी प्रायशो दृश्यते—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रो राजप्रजापक्षे व्याख्यातः। अध्यापकशिष्यपक्षस्यापि च संकेतः कृतः—(इन्द्र) विद्यैश्वर्ययुक्त राजन् अध्यापक वेत्यादि।