Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1319

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत । व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥१३१९॥

श्रा꣡य꣢꣯न्तः । इ꣣व । सू꣡र्य꣢꣯म् । वि꣡श्वा꣢꣯ । इत् । इ꣡न्द्र꣢꣯स्य । भ꣣क्षत । व꣡सू꣢꣯नि । जा꣣तः꣢ । ज꣡नि꣢꣯मानि । ओ꣡ज꣢꣯सा । प्र꣡ति꣢꣯ । भा꣣ग꣢म् । न । दी꣣धिमः ॥१३१९॥

Mantra without Swara
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥

श्रायन्तः । इव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जातः । जनिमानि । ओजसा । प्रति । भागम् । न । दीधिमः ॥१३१९॥

Samveda - Mantra Number : 1319
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(श्रायन्तः इव) भोजनादिकं परिपचन्तो जनाः यथा (सूर्यम्) आदित्यम् उपयुञ्जते, सौरीं हसन्तिकां निर्माय तत्र भोजनं पचन्ति, तथा यूयम् (इन्द्रस्य) ऐश्वर्यशालिनः परमात्मनः, तेन उत्पादितानीत्यर्थः, (विश्वा इत् वसूनि) सर्वाण्येव धनानि, अबग्निविद्युद्वाय्वोषध्यादीनि (भक्षत) यथायोग्यं सेवध्वम्। (जातः) प्रसिद्धः स इन्द्रः परमात्मा (ओजसा) स्वकीयेन प्रतापेन (जनिमानि) सर्वाण्येव उत्पन्नानि वस्तूनि धारयतीति शेषः। वयं तम् (प्रतिदीधिमः) प्रतिध्यायामः, (भागं न) यथा कश्चित् प्राप्तव्यं दायभागं स्वकीयं प्रतिध्यायति तद्वत् ॥२ एतन्मन्त्रस्य ऋग्वेदीयः पाठः निरुक्ते ६।८ इत्यत्र व्याख्यातः ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा सूर्योऽस्मभ्यं प्राणानां स्रोतो विद्यते तथैव परमेश्वरनिर्मितानि सर्वाण्येव वस्तून्यतितरां हितकराणि सन्ति। तेषां यथायोग्यमुपयोगः सर्वैर्विधेयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २६७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।