Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1316

1875 Mantra
Devata- पवमानः सोमः Rishi- वसुर्भारद्वाजः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣡सा꣢वि꣣ सो꣡मो꣢ अरु꣣षो꣢꣫ वृषा꣣ ह꣢री꣣ रा꣡जे꣢व द꣣स्मो꣢ अ꣣भि꣡ गा अ꣢꣯चिक्रदत् । पु꣢नानो꣢꣫ वार꣣म꣡त्ये꣢ष्य꣣व्य꣡य꣢ꣳ श्ये꣣नो꣡ न योनिं꣢꣯ घृ꣣त꣡व꣢न्त꣣मा꣡स꣢दत् ॥१३१६॥

अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । अ꣣रुषः꣡ । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । दस्मः꣢ । अ꣣भि꣢ । गाः । अ꣣चिक्रदत् । पुनानः꣢ । वा꣡र꣢꣯म् । अ꣡ति꣢꣯ । ए꣣षि । अव्य꣡य꣢म् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । घृ꣣त꣡व꣢न्तम् । आ । अ꣣सदत् ॥१३१६॥

Mantra without Swara
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययꣳ श्येनो न योनिं घृतवन्तमासदत् ॥

असावि । सोमः । अरुषः । वृषा । हरिः । राजा । इव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । अति । एषि । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आ । असदत् ॥१३१६॥

Samveda - Mantra Number : 1316
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिपरः। (अरुषः) आरोचमानः, (वृषा) रसवर्षकः, (हरिः) हरितवर्णः। [हरिः सोमो हरितवर्णः निरु० ४।१९।] (सोमः) ओषधिराजः सोमः (असावि) मया अभिषुतोऽस्ति। (दस्मः) दर्शनीयः अयम् (गाः अभि) गव्यानि पयांसि अभिलक्ष्य इव (अचिक्रदत्) शब्दायते, (राजा इव) यथा सम्राट् (दस्मः) शत्रूणामुपक्षयिता सन् (गाः अभि) शत्रुराष्ट्राणां भूमीः अभिक्रम्य (अचिक्रदत्) जयघोषं करोति। हे सोम ओषधिराट् ! (पुनानः) पूयमानः त्वम् (अव्ययं वारम्) अविबालमयं दशापवित्रम् (अत्येषि) अतीत्य गच्छसि। पश्यत, अयम् ओषधिराजः सोमः (घृतवन्तम्) आज्यवन्तम् (योनिम्) यज्ञगृहम्। [योनिः गृहनाम। निघं० ३।४।] (आसदत्) आसीदति, (श्येनः न) यथा वायुः। [श्येन इति अन्तरिक्षस्थाने निरुक्ते पठितम्।] (घृतवन्तम्) उदकवन्तम् (योनिम्) अन्तरिक्षम्। [योनिरन्तरिक्षं, महानवयवः। निरु० २।८।] (आसदत्) आसीदति ॥ द्वितीयः—जीवात्मपरः। (सोमः) प्रेरको जीवात्मा (असावि) ऐश्वर्यवान् कृतोऽस्ति। (अरुषः) ज्ञानप्रकाशेन आरोचमानः, (वृषा) ज्ञानवर्षकः, (हरिः) देहरथस्य हर्ता, (दस्मः) शत्रूणां क्षयकरः एष आत्मा (गाः अभि) इन्द्रियाणि अभिलक्ष्य (अचिक्रदत्) कर्तव्याकर्तव्यमुपदिशेत्, (राजा इव) कश्चित् सम्राड् यथा (गाः अभि) प्रजाः अभिलक्ष्य (अचिक्रदत्) राज-नियमान् घोषयति। हे जीवात्मन् ! त्वम् (पुनानः) स्वात्मानं पवित्रयन् (वारम् अति) निरोधकं विघ्नजातम् अतिक्रम्य (अव्ययम्) अविनश्वरं परमात्मानम् (एषि) प्राप्नुहि। (श्येनः न योनिम्) श्येनः पक्षी यथा उड्डयनाय (योनिम्) अन्तरिक्षम् प्राप्नोति तथा एष आत्मा (घृतवन्तम्) तेजस्विनम् (योनिम्) जगतो निमित्तकारणं परमात्मानम् (आसदत्) प्राप्नुयात् ॥१॥ अत्र श्लेषः श्लिष्टोपमा चालङ्कारः। प्रथमे व्याख्याने ‘अभि गा अचिक्रदत्’ इति व्यङ्ग्योत्प्रेक्षा च ॥१॥
Essence
पक्षिणो यथोड्डीय स्थानात् स्थानान्तरं प्राप्नुवन्ति तथैव मनुष्या उन्नतिं कृत्वा परमात्मानं प्राप्नुयुः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र सोमौषधिविषयो जीवात्मविषयश्च वर्ण्यते।