Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1315

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
प꣡रि꣢ स्वा꣣न꣡श्चक्ष꣢꣯से देव꣣मा꣡द꣢नः꣣ क्र꣢तु꣣रि꣡न्दु꣢र्विचक्ष꣣णः꣢ ॥१३१५

प꣡रि꣢꣯ । स्वा꣣नः꣢ । च꣡क्ष꣢꣯से । दे꣣वमा꣡द꣢नः । दे꣣व । मा꣡द꣢꣯नः । क्र꣡तुः꣢꣯ । इ꣡न्दुः꣢꣯ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥१३१५॥

Mantra without Swara
परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥१३१५

परि । स्वानः । चक्षसे । देवमादनः । देव । मादनः । क्रतुः । इन्दुः । विचक्षणः । वि । चक्षणः ॥१३१५॥

Samveda - Mantra Number : 1315
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवमादनः) विदुषामानन्दयिता, (क्रतुः) कर्ममयः जगद्धारणकर्मणां कर्ता, (विचक्षणः) विशेषेण सर्वेषां द्रष्टा, (इन्दुः) तेजस्वी रसेन क्लेदकश्च परमेश्वरः (चक्षसे) दर्शनाय, साक्षात्काराय। [चष्टे पश्यतिकर्मा। निघं० ३।११। तुमर्थे असेन् प्रत्ययः।] (परि स्वानः) परिषूयमाणः, अस्माभिर्ध्यायमानः भवति ॥३॥
Essence
परमात्मानं साक्षात्कृत्य वयं तद्वत् परेषामानन्दयितारः कर्मयोगिनो विवेकदृष्टिसम्पन्नास्तेजस्विनः परोपकारिणश्च भवेम ॥३॥
Subject
अथ परमात्मध्यानविषयमाह।