Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1314

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
नू꣣नं꣡ पु꣢ना꣣नो꣡ऽवि꣢भिः꣣ प꣡रि꣢ स्र꣣वा꣡द꣢ब्धः सुर꣣भि꣡न्त꣢रः । सु꣣ते꣡ चि꣢त्वा꣣प्सु꣡ म꣢दामो꣣ अ꣡न्ध꣢सा श्री꣣ण꣢न्तो꣣ गो꣢भि꣣रु꣡त्त꣢रम् ॥१३१४॥

नू꣢नम् । पु꣣नानः꣢ । अ꣡वि꣢꣯भिः । प꣡रि꣢꣯ । स्र꣣व । अ꣡द꣢꣯ब्धः । अ । द꣣ब्धः । सुरभि꣡न्त꣢रः । सु꣣ । रभि꣡न्त꣢रः । सु꣣ते꣢ । चि꣣त् । त्वा । अप्सु꣢ । म꣣दामः । अ꣡न्ध꣢꣯सा । श्री꣣ण꣡न्तः꣢ । गो꣡भिः꣢꣯ । उ꣡त्त꣢꣯रम् ॥१३१४॥

Mantra without Swara
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥

नूनम् । पुनानः । अविभिः । परि । स्रव । अदब्धः । अ । दब्धः । सुरभिन्तरः । सु । रभिन्तरः । सुते । चित् । त्वा । अप्सु । मदामः । अन्धसा । श्रीणन्तः । गोभिः । उत्तरम् ॥१३१४॥

Samveda - Mantra Number : 1314
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ! हे रसनिधे परमात्मन् ! (नूनम्) निश्चयेन (अविभिः) स्वकीयाभिः रक्षाभिः (पुनानः) अस्मान् पवित्रान् कुर्वाणः, (अदब्धः) केनापि अपराजितः, (सुरभिन्तरः) अतिशयेन सौरभमयः त्वम् (परिस्रव) आनन्दरसं प्रवाहय। (अन्धसा) आनन्दरसेन सह (अप्सु) अस्माकं कर्मसु (सुते चित्) त्वयि परिस्रुते सति (उत्तरम्) उत्कृष्टतरम् (त्वा) त्वाम् (गोभिः) आत्ममनोबुद्धिभिः (श्रीणन्तः) परिपचन्तः, ध्यायन्तः इति यावत्। [श्रीञ् पाके, क्र्यादिः।] (मदामः) मोदामहे। [मदी हर्षग्लेपनयोः, भ्वादिः] ॥२॥
Essence
परमात्मध्यानेन रक्षा पवित्रता सद्गुणसौरभं परमानन्दश्च प्राप्यते ॥२॥
Subject
अथ परमात्मानं सम्बोधयति।