Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1313

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡ꣳ यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣫रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥१३१३

प꣡रि꣢꣯ । इ꣣तः꣢ । सि꣣ञ्चत । सुत꣢म् । सो꣡मः꣢꣯ । यः । उ꣣त्तम꣢म् । ह꣣विः꣢ । द꣣धन्वा꣢न् । यः । न꣡र्यः꣢꣯ । अ꣣प्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣षा꣡व꣢ । सो꣡म꣢꣯म् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः ॥१३१३॥

Mantra without Swara
परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वाꣳ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥१३१३

परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्तमम् । हविः । दधन्वान् । यः । नर्यः । अप्सु । अन्तः । आ । सुषाव । सोमम् । अद्रिभिः । अ । द्रिभिः ॥१३१३॥

Samveda - Mantra Number : 1313
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यूयम् (इतः) अस्मात् सोमात् रसमयात् परमात्मनः (सुतम्) अभिषुतम् आनन्दरसम् (परि सिञ्चत) परितो वर्षत, (यः सोमः) यो रसागारः परमात्मा (उत्तमं हविः) उत्कृष्टतमम् आदातव्यं वस्तु विद्यते। [हूयते आदीयते इति हविः। हु दानादनयोः आदाने चेत्येके।] (नर्यः) नराणां हितकर्ता (यः) सोमः परमात्मा (दधन्वान्) उपासकान् धृतवान् भवसि। यं च (सोमम्) रसनिधिं परमात्मानम्, उपासकः (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (अप्सु अन्तः) प्राणेषु मध्ये (आ सुषाव) आ सुनोति ॥१॥२
Essence
परब्रह्मणः सकाशात् परमानन्दं प्राप्य स उपासकैरन्येभ्योऽपि वर्षणीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१२ क्रमाङ्के सोमरसपक्षे भक्तिरसविषये च व्याख्याता। अत्र ब्रह्मानन्दरसविषय उच्यते।